॥ श्री गणेशाय नमः ॥
श्रीबटुकभैरवहृदयस्तोत्रम्
॥ श्रीउमामहेश्वराभ्यां नमः ॥
॥ श्रीगुरवे नमः ॥
॥ श्रीभैरवाय नमः ॥
पूर्वपीठिका ।
कैलाशशिखरासीनं देवदेवं जगद्गुरुम् ।
देवी पप्रच्छ सर्वज्ञं शङ्करं वरदं शिवम् ॥ १ ॥
श्रीदेव्युवाच -
देवदेव परेशान भक्त्ताभीष्टप्रदायक ।
प्रब्रूहि मे महाभाग गोप्यं यद्यपि न प्रभो ॥ २ ॥
बटुकस्यैव हृदयं साधकानां हिताय च ।
श्रीशिव उवाच -
शृणु देवि प्रवक्ष्यामि हृदयं बटुकस्य च ॥ ३ ॥
गुह्याद्गुह्यतरं गुह्यं तच्छृणुष्व तु मध्यमे ।
हृदयास्यास्य देवेशि बृहदारण्यको ऋषिः ॥ ४ ॥
छन्दोऽनुष्टुप्समाख्यातो देवता बटुकः स्मृतः ।
प्रयोगाभीष्टसिद्धयर्थं विनियोगः प्रकीर्तितः ॥ ५ ॥
सविधि हृदयस्तोत्रस्य विनियोगः ।
ॐ अस्य श्रीबटुकभैरवहृदयस्तोत्रस्य श्रीबृहदारण्यकऋषिः
अनुष्टुप्छन्दः श्रीबटुकभैरवःदेवता
अभीष्टसिद्ध्यर्थं पाठे विनियोगः ॥
ऋष्यादिन्यासः ।
श्री बृहदारण्यकऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे ।
श्रीबटुकभैरवदेवतायै नमः हृदये ।
अभीष्टसिद्ध्यर्थं पाठे विनियोगाय नमः सर्वाङ्गे ॥
स्तोत्रम् ।
ॐ प्रणवेशः शिरः पातु ललाटे प्रमथाधिपः ।
कपोलौ कामवपुषो भ्रूभागे भैरवेश्वरः ॥ १ ॥
नेत्रयोर्वह्निनयनो नासिकायामघापहः ।
ऊर्ध्वोष्ठे दीर्घनयनो ह्यधरोष्ठे भयाशनः ॥ २ ॥
चिबुके भालनयनो गण्डयोश्चन्द्रशेखरः ।
मुखान्तरे महाकालो भीमाक्षो मुखमण्डले ॥ ३ ॥
ग्रीवायां वीरभद्रोऽव्याद्घण्टिकायां महोदरः ।
नीलकण्ठो गण्डदेशे जिह्वायां फणिभूषणः ॥ ४ ॥
दशने वज्रदशनो तालुके ह्यमृतेश्वरः ।
दोर्दण्डे वज्रदण्डो मे स्कन्धयोः स्कन्दवल्लभः ॥ ५ ॥
कूर्परे कञ्जनयनो फणौ फेत्कारिणीपतिः ।
अङ्गुलीषु महाभीमो नखेषु अघहाऽवतु ॥ ६ ॥
कक्षे व्याघ्रासनो पातु कट्यां मातङ्गचर्मणी ।
कुक्षौ कामेश्वरः पातु वस्तिदेशे स्मरान्तकः ॥ ७ ॥
शूलपाणिर्लिङ्गदेशे गुह्ये गुह्येश्वरोऽवतु ।
जङ्घायां वज्रदमनो जघने जृम्भकेश्वरः ॥ ८ ॥
पादौ ज्ञानप्रदः पातु धनदश्चाङ्गुलीषु च ।
दिग्वासो रोमकूपेषु सन्धिदेशे सदाशिवः ॥ ९ ॥
पूर्वाशां कामपीठस्थः उड्डीशस्थोऽग्निकोणके ।
याम्यां जालन्धरस्थो मे नैरृत्यां कोटिपीठगः ॥ १० ॥
वारुण्यां वज्रपीठस्थो वायव्यां कुलपीठगः ।
उदीच्यां वाणपीठस्थः ऐशान्यामिन्दुपीठगः ॥ ११ ॥
ऊर्ध्वं बीजेन्द्रपीठस्थः खेटस्थो भूतलोऽवतु ।
रुरुः शयानेऽवतु मां चण्डो वादे सदाऽवतु ॥ १२ ॥
गमने तीव्रनयनः आसीने भूतवल्लभः ।
युद्धकाले महाभीमो भयकाले भवान्तकः ॥ १३ ॥
रक्ष रक्ष परेशान भीमदंष्ट्र भयापह ।
महाकाल महाकाल रक्ष मां कालसङ्कटात् ॥ १४ ॥
फलश्रुतिः ।
इतीदं हृदयं दिव्यं सर्वपापप्रणाशनम् ।
सर्वसम्पत्प्रदं भद्रे सर्वसिद्धिफलप्रदम् ॥
इति श्रीबटुकभैरवहृदयस्तोत्रं सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥