॥ श्री गणेशाय नमः ॥
श्रीबगलापञ्जरस्तोत्रम्
अथवा श्रीपीताम्बरापञ्जरस्तोत्रम्
सूत उवाच -
सहस्रादित्यसङ्काशं शिवं साम्बं सनातनम् ।
प्रणम्य नारदः प्राह विनम्रो नतकन्धरः ॥ १ ॥
श्रीनारद उवाच -
भगवन्साम्ब तत्त्वज्ञ सर्वदुःखापहारक ।
श्रीमत्पीताम्बरादेव्याः पञ्जरं पुण्यदं सताम् ॥ २ ॥
प्रकाशय विभो नाथ कृपां कृत्वा ममोपरि ।
यद्यहं तव पादाब्जधूलिधूसरितोऽभवत् ॥ ३ ॥
विनियोगः ।
अस्य श्रीमद्बगलामुखी पीताम्बरा पञ्जररूपस्तोत्रमन्त्रस्य
भगवान्नारदऋषिः अनुष्टुप्छन्दः
जगद्वश्यकरी श्रीपीताम्बरा बगलामुखी देवता
ह्लीं बीजं स्वाहा शक्तिः क्लीं कीलकं
मम विपक्षपरसैन्यमन्त्र-तन्त्र-यन्त्रादिकृत्यक्षयार्थं
श्रीमत्पीताम्बरा बगलामुखी देवताप्रीत्यर्थे च जपे विनियोगः ॥
ऋष्यादि न्यासः ।
भगवान्नारदऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे ।
जगद्वश्यकरी श्रीपीताम्बरा बगलामुखी देवतायै नमः हृदये ।
ह्लीं बीजाय नमः दक्षिणस्तने स्वाहा । शक्त्यै नमः वामस्तने ।
क्लीं कीलकाय नमः नाभौ ।
मम विपक्षपरसैन्यमन्त्रतन्त्रयन्त्रादिकृत्यक्षयार्थं
श्रीमत्पीताम्बरा बगलादेव्याः प्रीतये जपे विनियोगः ।
करसम्पुटेन करमूलेन करशुद्धिः ।
ह्लामिति षट्दीर्घेण षडङ्गः । मूलेन व्यापकन्यासं कुर्यात् ॥
करन्यासः ।
ह्लां अङ्गुष्ठाभ्यां नमः । ह्लीं तर्जनीभ्यां स्वाहा ।
ह्लूं मध्यमाभ्यां वषट् । ह्लैं अनामिकाभ्यां हुम् ।
ह्लौं कनिष्ठिकाभ्यां वौषट् । ह्लः करतलकरपृष्ठाभ्यां फट् ॥
अङ्गन्यासः ।
ह्लां हृदयाय नमः । ह्लीं शिरसे स्वाहा ।
ह्लूं शिखायै वषट् । ह्लैं कवचाय हुम् ।
ह्लौं नेत्रत्रयाय वौषट् । ह्लः अस्त्राय फट् ॥
व्यापकन्यासः ।
ॐ ह्लीं अङ्गुष्ठाभ्यां नमः ।
ॐ बगलामुखी तर्जनीभ्यां स्वाहा ।
ॐ सर्वदुष्टानां मध्यमाभ्यां वषट् ।
ॐ वाचं मुखं पदं स्तम्भय अनामिकाभ्यां हुम् ।
ॐ जिह्वां कीलय कनिष्ठिकाभ्यां वौषट् ।
ॐ बुद्धिं विनाशय ह्लीं ॐ स्वाहा करतलकरपृष्ठाभ्यां फट् ॥
अङ्गन्यासः ।
ॐ ह्लीं हृदयाय नमः ।
ॐ बगलामुखि शिरसे स्वाहा ।
ॐ सर्वदुष्टानां शिखायै वषट् ।
ॐ वाचं मुखं पदं स्तम्भय कवचाय हुम् ।
ॐ जिह्वां कीलय नेत्रत्रयाय वौषट् ।
ॐ बुद्धिं विनाशय ह्लीं ॐ स्वाहा अस्त्राय फट् ॥
ध्यानम् ।
मध्ये सुधाब्धिमणिमण्डपरत्नवेद्यां
सिंहासनोपरिगतां परिपीतवर्णाम् ।
पीताम्बराभरणमाल्यविभूषिताङ्गीं
देवीं स्मरामि धृतमुद्गरवैरिजिह्वाम् ॥
इति ध्यात्वा मनसा सम्पूज्य योनिमुद्रां
एवं मुद्गरमुद्रां प्रदर्शय
ऋष्यादिन्यासं कृत्वा पञ्जरं न्यस्येत्त् ।
श्रीपीताम्बरायै नमः लं पृथिव्यात्मकं गन्धं परिकल्पयामि ।
श्रीपीताम्बरायै नमः हं आकाशात्मकं पुष्पं परिकल्पयामि ।
श्रीपीताम्बरायै नमः यं वायव्यात्मकं धूपं परिकल्पयामि ।
श्रीपीताम्बरायै नमः वं अमृतात्मकं नैवेद्यं परिकल्पयामि ॥
अथ पञ्जरस्तोत्रम् ।
श्रीशिव उवाच -
पञ्जरं तत्प्रवक्ष्यामि देव्याः पापप्रणाशनम् ।
यं प्रविश्य च बाधन्ते बाणैरपि नराः क्वचित् ॥ १ ॥
ॐ ऐं ह्लीं श्रीं श्रीमत्पीताम्बरादेवी बगला बुद्धिवर्द्धिनी ।
पातु मामनिशं साक्षात्सहस्रार्कसमद्युतिः ॥ २ ॥
ॐ ऐं ह्लीं श्रीं शिखादिपादपर्यन्तं वज्रपञ्जरधारिणी ।
ब्रह्मास्त्रसंज्ञा या देवी पीताम्बराविभूषिता ॥ ३ ॥
ॐ ऐं ह्लीं श्रीं श्रीबगला ह्यवत्वत्र चोर्ध्वभागं महेश्वरी ।
कामाङ्कुशा कला पातु बगला शास्त्रबोधिनी ॥ ४ ॥
ॐ ऐं ह्लीं श्रीं पीताम्बरा सहस्राक्षा ललाटं कामितार्थदा ।
पातु मां बगला नित्यं पीताम्बरसुधारिणी ॥ ५ ॥
ॐ ऐं ह्लीं श्रीं कर्णयोश्चैव युगपदातिरत्नप्रपूजिता ।
पातु मां बगलादेवी नासिकां मे गुणाकरा ॥ ६ ॥
ॐ ऐं ह्लीं श्रीं पीतपुष्पैः पीतवस्त्रैः पूजिता वेददायिनी ।
पातु मां बगला नित्यं ब्रह्मविष्ण्वादिसेविता ॥ ७ ॥
ॐ ऐं ह्लीं श्रीं पीताम्बरा प्रसन्नास्या नेत्रयोर्युगपद्भ्रुवौ ।
पातु मां बगला नित्यं बलदा पीतवस्त्रधृक् ॥ ८ ॥
ॐ ऐं ह्लीं श्रीं अधरोष्ठौ तथा दन्तान्जिह्वां च मुखगां मम ।
पातु मां बगलादेवी पीताम्बरसुधारिणी ॥ ९ ॥
ॐ ऐं ह्लीं श्रीं गले हस्ते तथा बाह्वोः युगपद्बुद्धिदासताम् ।
पातु मां बगलादेवी दिव्यस्रगनुलेपना ॥ १० ॥
ॐ ऐं ह्लीं श्रीं हृदये च स्तने नाभौ करावपि कृशोदरी ।
पातु मां बगला नित्यं पीतवस्त्रघनावृता ॥ ११ ॥
जङ्घायां च तथा चोर्वोर्गुल्फयोश्चातिवेगिनी ।
अनुक्तमपि यत्स्थानं त्वक्केशनखलोमकम् ॥ १२ ॥
असृङ्मांसं तथास्थीनी सन्धयश्चापि मे परा ।
ताः सर्वा बगलादेवी रक्षेन्मे च मनोहरा ॥ १३ ॥
फलश्रुतिः ।
इत्येतद्वरदं गोप्यं कलावपि विशेषतः ।
पञ्जरं बगलादेव्याः घोरदारिद्र्यनाशनम् ।
पञ्जरं यः पठेद्भक्त्या स विघ्नैर्नाभिभूतये ॥ १४ ॥
अव्याहतगतिश्चास्य ब्रह्मविष्ण्वादिसत्पुरे ।
स्वर्गे मर्त्ये च पाताले नारयस्तं कदाचन ॥ १५ ॥
न बाधन्ते नरव्याघ्रं पञ्जरस्थं कदाचन ।
अतो भक्तैः कौलिकैश्च स्वरक्षार्थं सदैव हि ॥ १६ ॥
पठनीयं प्रयत्नेन सर्वानर्थविनाशनम् ।
महादारिद्र्यशमनं सर्वमाङ्गल्यवर्धनम् ॥ १७ ॥
विद्याविनयसत्सौख्यं महासिद्धिकरं परम् ।
इदं ब्रह्मास्त्रविद्यायाः पञ्जरं साधु गोपितम् ॥ १८ ॥
पठेत्स्मरेद्ध्यानसंस्थः स जयेन्मरणं नरः ।
यः पञ्जरं प्रविश्यैव मन्त्रं जपति वै भुवि ॥ १९ ॥
कौलिकोऽकौलिको वापि व्यासवद्विचरेद्भुवि ।
चन्द्रसूर्यसमो भूत्वा वसेत्कल्पायुतं दिवि ॥ २० ॥
श्रीसूत उवाच -
इति कथितमशेषं श्रेयसामादिबीजम् ।
भवशतदुरितघ्नं ध्वस्तमोहान्धकारम् ।
स्मरणमतिशयेन प्राप्तिरेवात्र मर्त्यः ।
यदि विशति सदा वै पञ्जरं पण्डितः स्यात् ॥ २१ ॥
इति परमरहस्यातिरहस्ये श्रीपीताम्बरापञ्जरस्तोत्रं सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥