॥ श्री गणेशाय नमः ॥
श्रीबगलामुखीकवचं
विश्वसारोद्धारतन्त्रान्तर्गतम्
कैलासाचलम्ध्यगम्पुरवहं शान्तन्त्रिनेत्रं शिवं वामस्था
कवचम्प्रणम्य गिरिजा भूतिप्रदम्पृच्छति ।
देवी श्रीबगलामुखी रिपुकुलारण्याग्निरूपा च या
तस्याश्चापविमुक्तमन्त्रसहितम्प्रीत्याऽधुना ब्रूहि माम् ॥ १ ॥
श्रीशङ्कर उवाच -
देवी श्रीभववल्लभे शृणु महामन्त्रँ विभूतिप्रदन्देव्या
वर्मयुतं समस्तसुखदं साम्राज्यदमुक्तिदम् ।
तारं रुद्रवधूँ विरञ्चिमहिलाविष्णुप्रियाकामयुक्कान्ते
श्रीबगलानने मम रिपुन्नाशाय युग्मन्त्विति ॥ २ ॥
ऐश्वर्याणि पदञ्च देहि युगलं शीघ्रमनोवाञ्छितङ्कार्यं
साधय युग्मयुक्छिववधूवह्निप्रियान्तो मनुः ।
कंसारेस्तनयञ्च बीजमपरा शक्तिश्च वाणी तथा कीलं श्रीमति
भैरवर्ष्षिसहितञ्छन्दो विराट्संयुतम् ॥ ३ ॥
स्वेष्टार्थस्य परस्य वेत्ति नितराङ्कार्यस्य सम्प्राप्तये
नानासाध्यमहागदस्य नियतन्नाशाय वीर्याप्तये ।
ध्यात्वा श्रीबगलाननामनुवरञ्जप्त्वा सहस्राख्यकन्दीग्र्धैः
षट्कयुतैश्च रुद्रमहिताबीजैर्विनश्याङ्गके ॥ ४ ॥
ध्यानम् ।
सौवर्णासनसंस्थितां त्रिनयनां पीतांशुकोलासिनीं
हेमाभाङ्गरुचिं शशाङ्कमुकुटां स्रक्चम्पकस्रग्युताम् ।
हस्तैर्मद्गरपाशबद्धरसनां सम्बिभ्रतीं भूषणव्याप्ताङ्गीं
बगलामुखीं त्रिजगतां संस्तम्भिनीञ्चिन्तये ॥
विनियोग ।
ॐ अस्य श्रीबगलामुखीब्रह्मास्त्रमन्त्रकवचस्य भैरवऋषिः
विराट्छन्दः श्रीबगलामुखीदेवता क्लीम्बीजं ऐंशक्तिः
श्रीङ्कीलकं मम परस्य च मनोभिलषितेष्टकार्यसिद्धये विनियोगः ॥
ऋष्यादिन्यासः ।
ॐ शिरसि भैरवऋषयेनमः । ॐ मुखे विराट्छन्दसे नमः ।
ॐ हृदि बगलामुखीदेवतायैनमः । ॐ गुह्ये क्लीम्बीजायनमः ।
ॐ पादयोः ऐंशक्तयेनमः । ॐ सर्वाङ्गे श्रीङ्कीलकायनमः ॥
करन्यासः ।
ॐ ह्रां अङ्गुष्ठाभ्यान्नमः । ॐ ह्रीं तर्जनीभ्यान्नमः ।
ॐ ह्रूं मध्यमाभ्यान्नमः । ॐ ह्रैं अनामिकाभ्यान्नमः ।
ॐ ह्रौं कनिष्ठिकाभ्यान्नमः । ॐ ह्रः करतलकरपृष्ठाभ्यान्नमः ॥
हृदयादिषडङ्गन्यासः ।
ॐ ह्राँ हृदयायनमः । ॐ ह्रीं शिरसे स्वाहा ।
ॐ ह्रूं शिखायैवषट् । ॐ ह्रैं कवचायहुम् ।
ॐ ह्रौं नेत्रत्रयायवौषट् । ॐ ह्रः अस्त्राय फट् ॥
मन्त्रोद्धारः ।
ॐ ह्राँ ऐं श्रीं क्लीं श्रीबगलानने मम रिपून्नाशय ।
ममैश्वर्याणि देहि । शीघ्रमनोवाञ्छितकार्यं साधयः । ह्रींस्वाहा ॥
कवचम् ।
शिरो मे पातु ॐ ह्रीं ऐं श्रीं क्लीं पातु ललाटकम् ।
सम्बोधनपदम्पातु नेत्रे श्रीबगलानने ॥ १ ॥
श्रुतौ मम रिपुम्पातु नासिकान्नाशय द्वयम् ।
पातु गण्डौ सदा मामैश्वर्याण्यन्तन्तु मस्तकम् ॥ २ ॥
देहि द्वन्द्वं सदा जिह्वाम्पातु शीघ्रँ वचो मम ।
कण्ठदेशं स नः पातु वाञ्छितम्बाहुमूलकम् ॥ ३ ॥
कार्यं साधय द्वन्द्वन्तु करौ पातु सदा मम ।
मायायुक्ता तथा स्वाहा हृदयम्पातु सर्वदा ॥ ४ ॥
अष्टाधिकचत्वारिंशदण्डाढ्या बगलामुखी ।
रक्षाङ्करोतु सर्वत्र गृहेऽरण्ये सदा मम ॥ ५ ॥
ब्रह्मास्त्राख्यो मनुः पातु सर्वाङ्गे सर्वसन्धिषु ।
मन्त्रराजः सदा रक्षाङ्करोतु मम सर्वदा ॥ ६ ॥
ॐ ह्रीं पातु नाभिदेशमे कटिमे बगलावतु ।
मुखी वर्णद्वयम्पातु लिङ्गमे मुष्कयुग्मकम् ॥ ७ ॥
जानुनी सर्वदुष्टानाम्पातु मे वर्णपञ्चकम् ।
वाचमुखन्तथा पादं षड्वर्णा परमेश्वरी ॥ ८ ॥
जङ्घायुग्मे सदा पातु बगला रिपुमोहिनी ।
स्तम्भयेति पदम्पृष्ठम्पातुवर्णत्रयमम ॥ ९ ॥
जिह्वाँ वर्णद्वयम्पातु गुल्फौ मे कीलयेति च ।
पादोद्र्ध्वं सर्वदा पातु बुद्धिं पादतले मम ॥ १० ॥
विनाशय पदम्पातु पादाङ्गुल्योर्न्नखानि मे ।
ह्रीं बीजं सर्वदा पातु बुद्धीन्द्रियवचांसि मे ॥ ११ ॥
सर्वाङ्गम्प्रणवः पातु स्वाहा रोमाणि मेऽवतु ।
ब्राह्मी पूर्वदले पातु चाग्नेयां विष्णुवल्लभा ॥ १२ ॥
माहेशी दक्षिणे पातु चामुण्डा राक्षसेऽवतु ।
कौमारी पश्चिमे पातु वायव्ये चापराजिता ॥ १३ ॥
वाराही चोत्तरे पातु नारसिंही शिवेऽवतु ।
ऊर्द्ध्वम्पातु महालक्ष्मीः पाताले शारदाऽवतु ॥ १४ ॥
इत्यष्टौ शक्तयः पान्तु सायुधाश्च सवाहनाः ।
राजद्वारे महादुर्गे पातु माङ्गणनायकः ॥ १५ ॥
श्मशाने जलमध्ये च भैरवश्च सदाऽवतु ।
द्विभुजा रक्तवसनाः सर्वाभरणभूषिताः ॥ १६ ॥
योगिन्यः सर्वदा पातु महारण्ये सदा मम ।
इति ते कथितन्देवि कवचम्परमाद्भुतम् ॥ १७ ॥
श्रीविश्वविजयन्नाम कीर्तिश्रीविजयप्रदम् ।
अपुत्रो लभते पुत्रन्धीरं शूरं शतायुषम् ॥ १८ ॥
निर्द्धनो धनमाप्नोति कवचस्यास्य पाठतः ।
जपित्वा मन्त्रराजन्तु ध्यात्वा श्रीबगलामुखीम् ॥ १९ ॥
पठेदिदं हि कवचन्निशायान्नियमात्तु यः ।
यद्यत्कामयते कामं साध्यासाध्ये महीतले ॥ २० ॥
तत्तत्काममवाप्नोति सप्तरात्रेण शङ्करी ।
गुरुन्ध्यात्वा सुराम्पीत्वा रात्रौ शक्तिसमन्वितः ॥ २१ ॥
कवचण्यः पठेद्देवि तस्याऽसाध्यन्न किञ्चन ।
यन्ध्यात्वा प्रजपेन्मन्त्रसहस्रङ्कवचम्पठेत् ॥ २२ ॥
त्रिरात्रेण वशयाति मृत्युन्तन्नात्र संशयः ।
लिखित्वा प्रतिमां शत्रोस्सतालेन हरिद्रया ॥ २३ ॥
लिखित्वा हृदि तन्नाम तन्ध्यात्वा प्रजपेन्मनुम् ।
एकविंशदिनं यावत्प्रत्यहञ्च सहस्रकम् ॥ २४ ॥
जप्त्वा पठेत्तु कवचञ्चतुर्विंशतिवारकम् ।
संस्तम्भञ्जायते शत्रोर्न्नात्र कार्या विचारणा ॥ २५ ॥
विवादे विजयन्तस्य सङ्ग्रामे जयमाप्नुयात् ।
श्मशाने च भयन्नास्ति कवचस्य प्रभावतः ॥ २६ ॥
नवनीतञ्चाभिमन्त्र्य स्त्रीणान्दद्यान्महेश्वरि ।
वन्ध्यायाञ्जायते पुत्रो विद्याबलसमन्वितः ॥ २७ ॥
श्मशानाङ्गारमादाय भौमे रात्रौ शनावथ ।
पादोदकेन स्पृष्ट्वा च लिखेलौहशलाकया ॥ २८ ॥
भूमौ शत्रोः स्वरूपञ्च हृदि नाम समालिखेत् ।
हस्तन्तद्धृदये दत्वा कवचन्तिथिवारकम् ॥ २९ ॥
ध्यात्वा जपेन्मन्त्रराजन्नवरात्रम्प्रयत्नतः ।
म्रियते ज्वरदाहेन दशमेऽह्नि न संशयः ॥ ३० ॥
भूर्जपत्रेष्विदं स्तोत्रमष्टगन्धेन सँलिखेत् ।
धारयेद्दक्षिणे बाहौ नारी वामभुजे तथा ॥ ३१ ॥
सङ्ग्रामे जयमाप्नोति नारी पुत्रवती भवेत् ।
ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तन्ति तञ्जनम् ॥ ३२ ॥
सम्पूज्य कवचन्नित्यम्पूजायाः फलमालभेत् ।
बृहस्पतिसमो वापि विभवे धनदोपमः ॥ ३३ ॥
कामतुल्यश्च नारीणां शत्रूणाञ्च यमोपमः ।
कवितालहरी तस्य भवेद्गङ्गाप्रवाहवत् ॥ ३४ ॥
गद्यपद्यमयी वाणी भवेद्देवीप्रसादतः ।
एकादशशतं यावत्पुरश्चरणमुच्यते ॥ ३५ ॥
पुरश्चर्याविहीनन्तु न चेदम्फलदायकम् ।
न देयम्परशिष्येभ्यो दुष्टेभ्यश्च विशेषतः ॥ ३६ ॥
देयं शिष्याय भक्ताय पञ्चत्वञ्चाऽन्यथाप्नुयात् ।
इदङ्कवचमज्ञात्वा भजेद्यो बगलामुखीम् ।
शतकोटि जपित्वा तु तस्य सिद्धिर्न्न जायते ॥ ३७ ॥
दाराढ्यो मनुजोस्य लक्षजपतः प्राप्नोति सिद्धिम्परां विद्यां
श्रीविजयन्तथा सुनियतन्धारञ्च वीरं वरम् ।
ब्रह्मास्त्राख्यमनुं विलिख्य नितराम्भूर्जेष्टगन्धेन वै धृत्वा राजपुरं
व्रजन्ति खलु ये दासोऽस्ति तेषान्नृपः ॥ ३८ ॥
इति विश्वसारोद्धारतन्त्रे पार्वतीश्वरसंवादे
बगलामुखीकवचं सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥