॥ श्री गणेशाय नमः ॥
नवदुर्गा स्तुतिः
९) सिद्धिदात्री - निर्वाणचक्र
सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि ।
सेव्यमाना सदा भूयात्सिद्धिदा सिद्धिदायिनी ॥
ध्यानम् ।
वन्दे वाञ्छितमनोरथार्थं चन्द्रार्धकृतशेखराम् ।
कमलस्थितां चतुर्भुजां सिद्धिदां यशस्वनीम् ॥
स्वर्णवर्णनिर्वाणचक्रस्थितां नवमदुर्गां त्रिनेत्राम् ।
शङ्खचक्रगदा पद्मधरां सिद्धिदात्रीं भजेऽहम् ॥
पटाम्बरपरिधानां सुहास्यां नानालङ्कारभूषिताम् ।
मञ्जीरहारकेयूरकिङ्किणीरत्नकुण्डलमण्डिताम् ॥
प्रफुल्लवदनां पल्लवाधरां कान्तकपोलां पीनपयोधराम् ।
कमनीयां लावण्यां क्षीणकटिं निम्ननाभिं नितम्बनीम् ॥
स्तोत्रम् ।
कञ्जनाभां शङ्खचक्रगदाधरां मुकुटोज्ज्वलाम् ।
स्मेरमुखि शिवपत्नि सिद्धिदात्रि नमोऽस्तु ते ॥
पटाम्बरपरिधानां नानालङ्कारभूषिताम् ।
नलिनस्थिता नलिनाक्षी सिद्धिदात्री नमोऽस्तु ते ॥
परमानन्दमयी देवी परब्रह्म परमात्मा ।
परमशक्ति परमभक्ति सिद्धिदात्री नमोऽस्तु ते ॥
विश्वकर्त्री विश्वभर्त्री विश्वहर्त्री विश्वप्रीता ।
विश्वार्चिता विश्वातीता सिद्धिदात्री नमोऽस्तु ते ॥
भुक्तिमुक्तिकारणी भक्तकष्टनिवारिणी ।
भवसागरतारिणी सिद्धिदात्री नमोऽस्तु ते ॥
धर्मार्थकामप्रदायिनी महामोहविनाशिनी ।
मोक्षदायिनी सिद्धिदात्री ऋद्धिदात्री नमोऽस्तु ते ॥
कवचम् ।
ओङ्कारः पातु शीर्षे मां ऐं बीजं मां हृदये ।
ह्रीं बीजं सदा पातु नभो गृहो च पादयोः ॥
ललाटकर्णौ श्रीं बीजं पातु क्लीं बीजं मां नेत्रघ्राणौ ।
कपोलचिबुकौ हसौः पातु जगत्प्रसूत्यै मां सर्ववदने ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥