॥ श्री गणेशाय नमः ॥
नवदुर्गा स्तुतिः
४) कूष्माण्डा - अनाहतचक्र
सुरासम्पूर्णकलशं रुधिराप्लुतमेव च ।
दधाना हस्तपद्माभ्यां कूष्माण्डा शुभदाऽस्तु मे ॥
ध्यानम् ।
वन्दे वाञ्छितकामर्थं चन्द्रार्धकृतशेखराम् ।
सिंहारूढामष्टभुजां कुष्माण्डां च यशस्विनीम् ॥
भास्वरां भानुनिभामनाहतस्थितां चतुर्थदुर्गां त्रिनेत्राम् ।
कमण्डलुचापबाणपद्मसुधाकलशचक्रगदाजपवटीधराम् ॥
पटाम्बरपरिधानां कमनीयां मृदुहास्या नानालङ्कारभूषिताम् ।
मञ्जीरहारकेयूरकिङ्किणीरत्नकुण्डलमण्डिताम् ।
प्रफुल्लवदनां चारुचिबुकां कान्तकपोलां तुङ्गकुचाम् ।
कोलाङ्गीं स्मेरमुखीं क्षीणकटिं निम्ननाभिं नितम्बनीम् ॥
स्त्रोत्रम् ।
दुर्गतिनाशिनी त्वं हि दारिद्र्यादिविनाशिनी ।
जयदा धनदा कूष्माण्डे प्रणमाम्यहम् ॥
जगन्माता जगत्कर्त्रि जगदाधाररूपिणी ।
चराचरेश्वरी कूष्माण्डे प्रणमाम्यहम् ॥
त्रैलोक्यसुन्दरी त्वं हि दुःखशोकनिवारिणी ।
परमानन्दमयी कूष्माण्डे प्रणमाम्यहम् ॥
कवचम् ।
हसरै मे शिरः पातु कूष्माण्डा भवनाशिनी ।
हसलकरी नेत्रऽथ हसरौश्च ललाटकम् ॥
कौमारी पातु सर्वगात्रे वाराही उत्तरे तथा ।
पूर्वे पातु वैष्णवी इन्द्राणी दक्षिणे मम ।
दिग्दिक्षु सर्वत्रैव कूम्बीजं सर्वदाऽवतु ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥