॥ श्री गणेशाय नमः ॥
देव्या आरात्रिकम्
॥ हरि ॐ ॥
जय देवि जय देवि जय मोहनरूपे ।
मामिह जननि समुद्धर पतितं भवकूपे ॥
ध्रुवपदम् ॥
प्रवरातीरनिवासिनि निगमप्रतिपाद्ये
पारावारविहारिणि नारायणि ह्वद्ये ।
प्रपञ्चसारे जगदाधारे श्रीविद्ये
प्रपन्नपालननिरते मुनिवृन्दाराध्ये ॥ १ ॥
जय देवि जय देवि जय मोहनरूपे ।
मामिह जननि समुद्धर पतितं भवकूपे ॥
दिव्यसुधाकरवदने कुन्दोज्ज्वलरदने
पदनखनिर्जितमदने मधुकैटभकदने ।
विकसितपञ्कजनयने पन्नगपतिशयने
खगपतिवहने गहने सङ्कटवनदहने ॥ २ ॥
जय देवि जय देवि जय मोहनरूपे ।
मामिह जननि समुद्धर पतितं भवकूपे ॥
मञ्जीराङ्कितचरणे मणिमुक्ताभरणे
कङ्चुकिवस्त्रावरणे वक्त्राम्बुजधरणे ।
शक्रामयभयहरणे भूसुरसुखकरणे
करूणां कुरू मे शरणे गजनक्रोद्धरणे ॥ ३ ॥
जय देवि जय देवि जय मोहनरूपे ।
मामिह जननि समुद्धर पतितं भवकूपे ॥
छित्त्वा राहुग्रीवां पासि त्वं विबुधान्
ददासि मृत्युमनिष्टं पीयूषं विबुधान् ।
विहरसि दानवऋद्धान्समरे संसिद्धान्
मध्वमुनीश्वरवरदे पालय संसिद्धान् ॥ ४ ॥
जय देवि जय देवि जय मोहनरूपे ।
मामिह जननि समुद्धर पतितं भवकूपे ॥
इति देव्या आरात्रिकं समाप्तम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥