॥ श्री गणेशाय नमः ॥
सिद्धिलक्ष्मीस्तुती
आकारब्रह्मरूपेण ॐकारं विष्णुमव्ययम् ।
सिद्धिलक्ष्मि मरालक्ष्मि लक्ष्यलक्ष्मि नमोऽस्तु ते ॥
याः श्रीः पद्वने कदम्बशिखरे राजगृहे कुंजरे
श्वेते चाश्वयुते वृषे च युगले यज्ञे च यूपस्थिते ।
शंखे देवकुले नरेन्द्रभवने गंगातटे गोकुले
या श्रीस्तिष्ठति सर्वदा मम गृहे भूयात्सदा निश्चला ॥
यासा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी
गम्भीरावर्तनाभिः स्तनभरनमिता शुद्धवस्त्रोत्तरीया ।
लक्ष्मिर्दिव्यैर्गजेन्द्रैर्मणि-गण-खचितैः स्नापिता हेमकुम्भै-
नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमांगल्ययुक्ता ॥
इति सिद्धिलक्ष्मीस्तुति सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥