॥ श्री गणेशाय नमः ॥
श्रीशनिरक्षास्तवः
श्रीनारद उवाच -
ध्यात्वा गणपतिं राजा धर्मराजो युधिष्ठिरः ।
धीरः शनैश्चरस्येमं चकार स्तवमुत्तमम् ॥
विनियोगः ।
ॐ अस्य श्रीशनिस्तवराजस्य सिन्धुद्वीपऋषिः गायत्रीछन्दः
श्रीशनैश्चरदेवता श्रीशनैश्चरप्रीत्यर्थे पाठे विनियोगः ॥
ऋष्यादिन्यासः ।
शिरसि सिन्धुद्वीपर्षये नमः । मुखे गायत्रीछन्दसे नमः ।
हृदि श्रीशनैश्चरदेवतायै नमः ।
सर्वाङ्गे श्रीशनैश्चरप्रीत्यर्थे विनियोगाय नमः ॥
स्तवः ।
शिरो मे भास्करिः पातु भालं छायासुतोऽवतु ।
कोटराक्षो दृशौ पातु शिखिकण्ठनिभः श्रुती ॥
घ्राणं मे भीषणः पातु मुखं बलिमुखोऽवतु ।
स्कन्धौ संवर्तकः पातु भुजो मे भयदोऽवतु ॥
सौरिर्मे हृदयं पातु नाभिं शनैश्चरोऽवतु ।
ग्रहराजः कटिं पातु सर्वतो रविनन्दनः ॥
पादौ मन्दगतिः पातु कृष्णः पात्वखिलं वपुः ॥
फलश्रुतिः ।
रक्षामेतां पठेन्नित्यं सौरेर्नामाबलैर्युतम् ।
सुखी पुत्री चिरायुश्च स भवेन्नात्र संशयः ॥
इति श्रीशनिरक्षास्तवः ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥