॥ श्री गणेशाय नमः ॥
श्रीसदाशिवस्तोत्रम्
पङ्कजोद्भव प्रपूजिताङ्घ्रि पङ्कजद्वयं
किङ्करिकृतमरोगमप्रमेयमव्ययम् ।
सङ्कटापहं समस्तलोकपालनोत्सुकं
चिन्तयामहे सदाशिवं शिवार्धविग्रहम् ॥ १ ॥
आगमान्तचारिणं निकृतमतवारणं
वागतीतमद्वयं विराजवाहनप्रियम् ।
नागभूषणं कुरङ्गधारिणं विरागिनं
चिन्तयामहे सदाशिवं शिवार्धविग्रहम् ॥ २ ॥
फालनेत्रदग्धमन्मथ प्रमुग्धविग्रहं
भालस्थिते भानुमौलिमाद्रिराजसायकम् ।
नीललोहितं निशीधिनीश निर्मलाङ्गकं
चिन्तयामहे सदाशिवं शिवार्धविग्रहम् ॥ ३ ॥
पादयुग्मसार साश्रितद्वयपादपं
नादरूपमद्रिजा घनस्तनप्रमर्दिनम् ।
वेदवेद्यमादिदेवमुग्रमुक्शवाहनं
चिन्तयामहे सदाशिवं शिवार्धविग्रहम् ॥ ४ ॥
देवनिम्नगा तरङ्ग शीखरोल्लसज्जटं
भावनाविधूरगं कपालिनं पिनाकिनम् ।
पावनं पुरातनं पुरात्रयप्रभञ्जनम्
चिन्तयामहे सदाशिवं शिवार्धविग्रहम् ॥ ५ ॥
शीतलचलात्मज हृदम्बुज भास्करं
वीतराग योगिवृन्द चिदारङ्गनर्तकम् ।
सारगं सनातनं समाधिकं सदानतं
चिन्तयामहे सदाशिवं शिवार्धविग्रहम् ॥ ६ ॥
रामनाममन्त्र तत्त्वचिन्तनैकचेतसां
कामनाशनं कृषाणु लोचनं निरञ्जनम् ।
व्योमकेशमीश्वरं भवम्भवाब्धि तारकं
चिन्तयामहे सदाशिवं शिवार्धविग्रहम् ॥ ७ ॥
बन्धहीन लोकबन्धु मन्दकान्तकं
सिन्दुरास्य बाहुलेय लालनलोलुपम् ।
दण्डिचर्मचेलमीहितार्थधं सुखास्पदं
चिन्तयामहे सदाशिवं शिवार्धविग्रहम् ॥ ८ ॥
सत्यचिद्घनं विकल्पहीनमक्शयं परं
नित्यमीश्वरं कृशाणुरेतसं निरागसम् ।
मृत्युभीतिभेदकं मृगेन्दुपुत्रपालकं
चिन्तयामहे सदाशिवं शिवार्धविग्रहम् ॥ ९ ॥
विष्टपोद्भवस्थिति प्रनाशकारणं शिवं
दुष्टदैत्यसूदनं कपालशूलधारणम् ।
शिष्टपालनं गिरीशमष्टमूर्तिमन्वहं
चिन्तयामहे सदाशिवं शिवार्धविग्रहम् ॥ १० ॥
भूतनायकं विभूतिभूषणं विषाशिनं
पाथगौकनाशनं पवित्रमस्थिमालिनम् ।
जाटरूपकान्तिकाम्यकेशपाशशोभिनं
चिन्तयामहे सदाशिवं शिवार्धविग्रहम् ॥ ११ ॥
तारकेश शेखरं तमालनील कन्धरं
तारकस्वरूपकं त्रिवर्गसिद्धिदायकम् ।
तारकारि तोषणैक तत्परं दिगम्बरं
चिन्तयामहे सदाशिवं शिवार्धविग्रहम् ॥ १२ ॥
स्तोत्रमेतदुत्तमं समस्तसूरिभावितं
गोत्रनन्दिनीपति प्रियङ्करं शिवङ्करम् ।
श्रोत्रसौख्यहेतुकं मुदा सदापि यः पठेद्-
सार्द्रया सुगीत पूतमच्युतं पदं लभेत् ॥ १३ ॥
इति श्रीसदाशिवस्तोत्रं सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥