॥ श्री गणेशाय नमः ॥
श्रीमदुग्रताराहृदयस्तोत्रम्
श्रीशिव उवाच -
शृणु पार्वति भद्रं ते लोकानां हितकारकम् ।
कथ्यते सर्वदा गोप्यं ताराहृदयमुत्तमम् ॥ १ ॥
श्रीपार्वत्युवाच -
स्तोत्रं कथं समुत्पन्नं कृतं केन पुरा प्रभो ।
कथ्यतां सर्वसद्वृत्तं कृपां कृत्वा ममोपरि ॥ २ ॥
श्रीशिव उवाच -
रणे देवासुरे पूर्वं कृतमिन्द्रेण सुप्रिये ।
दुष्टशत्रुविनाशार्थं बलवृद्धियशस्करम् ॥ ३ ॥
विनियोगः ।
ॐ अस्य श्रीमदुग्रताराहृदयस्तोत्रमन्त्रस्य श्रीभैरवऋषिः
अनुष्टुप्छन्दः श्रीमदुग्रतारादेवता स्त्रींबीजम्हूंशक्तिः
नमःकीलकम्सकलशत्रुविनाशार्थे पाठे विनियोग ॥
ऋष्यादिन्यासः ।
श्रीभैरव ऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे ।
श्रीमदुग्रतारा देवतायै नमः हृदि । स्त्रीं बीजाय नमः गुह्ये ।
हूं शक्तये नमः नाभौ । नमः कीलकाय नमः पादयोः ।
सकल शत्रुविनाशार्थे पाठे विनियोगाय नमः अञ्जलौ ॥
अथ करन्यासः ।
ॐ स्त्रीं अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं तर्जनीभ्यां नमः ।
ॐ हूं मध्यमाभ्यां नमः । ॐ त्रीं अनामिकाभ्यां नमः ।
ॐ ऐं कनिष्ठिकाभ्यां नमः । ॐ हंसः करतल करपृष्ठाभ्यां नमः ॥
अथ हृदयादिषडङ्गन्यासः ।
ॐ स्त्रीं हृदयाय नमः । ॐ ह्रीं शिरसे स्वाहा ।
ॐ हूं शिखायै वषट् । ॐ त्रीं कवचाय हुम् ।
ॐ ऐं नेत्रत्रयाय वौषट् । ॐ हंसः अस्त्राय फट् ॥
अथ ध्यानम् ।
ॐ ध्यायेत्कोटिदिवाकरद्युतिनिभां बालेन्दुयुक्शेखरां
रक्ताङ्गीं रसनां सुरक्तवसनां पूर्णेन्दुबिम्बाननाम् ।
पाशं कर्त्रीमहाङ्कुशादि दधतीं दोर्भिश्चतुर्भिर्युतां
नानाभूषणभूषितां भगवतीं तारां जगत्तारिणीम् ॥ ४ ॥
अथ स्तोत्रम् ।
एवं ध्यात्वा शुभां तारां ततस्यु हृदयं पठेत् ॥
तारिणी तत्त्वनिष्ठानां सर्वतत्त्वप्रकाशिका ।
रामाभिन्ना पराशक्तिः शत्रुनाशं करोतु मे ॥ ५ ॥
सर्वदा शत्रुसंरम्भे तारा मे कुरुतां जयम् ।
स्त्रीं त्रींस्वरूपिणी देवी त्रिषु लोकेषु विश्रुता ॥ ६ ॥
तव स्नेहान्मयाख्यातं न पैशुन्यं प्रकाश्यताम् ।
शृणुदेवि तव स्नेहात्तारानामानि तत्त्वतः ॥ ७ ॥
वर्णयिष्यामि गुप्तानि दुर्लभानि जगत्त्रये ।
तारिणी तरला तारा त्रिरूपा तरणिप्रभा ॥ ८ ॥
सत्त्वरूपा महासाध्वी सर्वसज्जनपालिका ।
रमणीया रजोरूपा जगत्सृष्टिकरी परा ॥ ९ ॥
तमोरूपा महामाया घोररावां भयानका ।
कालरूपा कालिकाख्या जगद्विध्वंसकारिका ॥ १० ॥
तत्त्वज्ञानपरानन्दा तत्त्वज्ञानप्रदाऽनघा ।
रक्ताङ्गी रक्तवस्त्रा च रक्तमालाप्रशोभिता ॥ ११ ॥
सिद्धिलक्ष्मीश्च ब्रह्माणी महाकाली महालया ।
नामान्येतानि ये मर्त्त्याः सर्वदैकाग्रमानसाः ॥ १२ ॥
प्रपठन्ति प्रिये तेषां किङ्करत्वं करोम्यहम् ।
तारां तारपरां देवीं तारकेश्वरपूजिताम् ॥ १३ ॥
तारिणीं भवपाथोधेरुग्रतारां भजाम्यहम् ।
स्त्रीं ह्रीं हूं त्रीं फट्मन्त्रेण जलं जप्त्वाऽभिषेचयेत् ॥ १४ ॥
सर्वे रोगाः प्रणश्यन्ति सत्यं सत्यं वदाम्यहम् ।
त्रीं स्वाहान्तैर्महामन्त्रैश्चन्दनं साधयेत्ततः ॥ १५ ॥
तिलकं कुरुते प्राज्ञो लोको वश्यो भवेत्प्रिये ।
स्त्रीं ह्रीं त्रीं स्वाहा मन्त्रेण श्मशानं भस्ममन्त्रयेत् ॥ १६ ॥
शत्रोर्गृहे प्रतिक्षिप्त्वा शत्रोर्मृत्युर्भविष्यति ।
ह्रीं हूं स्त्रीं फडन्तमन्त्रैः पुष्पं संशोध्य सप्तधा ॥ १७ ॥
उच्चाटनं नयत्याशु रिपूणां नैव संशयः ।
स्त्रीं त्रीं ह्रीं मन्त्रवर्येण अक्षताश्चाभिमन्त्रिताः ॥ १८ ॥
तत्प्रतिक्षेपमात्रेण शीघ्रमायाति मानिनी ।
(हंसः ॐ ह्रीं स्त्रीं हूं हंसः)
इति मन्त्रेण जप्तेन शोधितं कज्जलं प्रिये ॥ १९ ॥
तस्यैव तिलकं कृत्वा जगन्मोहं समाचरेत् ।
तारायाः हृदयं देवि सर्वपापप्रणाशनम् ॥ २० ॥
वाजपेयादियज्ञानां कोटिकोटिगुणोत्तरम् ।
गङ्गादिसर्वतीर्थानां फलं कोटिगुणात्स्मृतम् ॥ २१ ॥
महादुःखे महारोगे सङ्कटे प्राणसंशये ।
महाभये महाघोरे पठेत्स्तोत्रं महोत्तमम् ॥ २२ ॥
सत्यं सत्यं मयोक्तं ते पार्वति प्राणवल्लभे ।
गोपनीयं प्रयत्नेन न प्रकाश्यमिदं क्वचित् ॥ २३ ॥
इति श्रीभैरवीतन्त्रे शिवपार्वतीसम्वादे
श्रीमदुग्रताराहृदयं सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥