॥ श्री गणेशाय नमः ॥
श्रीगोवर्धनाष्टकम्
कृष्णप्रसादेन समस्तशैल साम्राज्यमाप्नोति च वैरिणोऽपि ।
शक्रस्य यः प्राप बलिं स साक्षाद्गोवर्धनो मे दिशतामभीष्टम् ॥ १ ॥
स्वप्रेष्ठहस्ताम्बुजसौकुमार्य सुखानुभूतेरतिभूमि वृत्तेः ।
महेन्द्रवज्राहतिमप्यजानन्गोवर्धनो मे दिषतामभीष्टम् ॥ २ ॥
यत्रैव कृष्णो वृषभानुपुत्र्या दानं गृहीतुं कलहं वितेने ।
श्रुतेः स्पृहा यत्र महत्यतः श्री गोवर्धनो मे दिषतामभिष्टम् ॥ ३ ॥
स्नात्वा सरः स्वशु समीर हस्ती यत्रैव नीपादिपराग धूलिः ।
आलोलयन्खेलति चारु स श्री गोवर्धनो मे दिषतामभीष्टम् ॥ ४ ॥
कस्तूरिकाभिः शयितं किमत्रेत्यूहं प्रभोः स्वस्य मुहुर्वितन्वन् ।
नैसर्गिकस्वीयशिलासुगन्धैर्गोवर्धनो मे दिषतामभीष्टम् ॥ ५ ॥
वंशप्रतिध्वन्यनुसारवर्त्म दिदृक्षवो यत्र हरिं हरिण्याः ।
यान्त्यो लभन्ते न हि विस्मिताः स गोवर्धनो मे दिषतामभीष्टम् ॥ ६ ॥
यत्रैव गङ्गामनु नावि राधां आरोह्य मध्ये तु निमग्ननौकः ।
कृष्णो हि राधानुगलो बभौ स गोवर्धनो मे दिषतामभीष्टम् ॥ ७ ॥
विना भवेत्किं हरिदासवर्य पदाश्रयं भक्तिरतः श्रयामि ।
यमेव सप्रेम निजेशयोः श्री गोवर्धनो मे दिषतामभीष्टम् ॥ ८ ॥
एतत्पठेद्यो हरिदासवर्य महानुभावाष्टकमार्द्रचेताः ।
श्रीराधिकामाधवयोः पदाब्ज दास्यं स विन्देदचिरेण साक्षात् ॥ ९ ॥
इति महामहोपाध्यायश्रीविश्वनाथचक्रवर्तिविरचितं श्रीगोवर्धनाष्टकं समाप्तम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥