॥ श्री गणेशाय नमः ॥
श्रीगरुडस्यद्वादशनामस्तोत्रम्
सुपर्णं वैनतेयं च नागारिं नागभीषणम् ।
जितान्तकं विषारिं च अजितं विश्वरूपिणम् ।
गरुत्मन्तं खगश्रेष्ठं तार्क्ष्यं कश्यपनन्दनम् ॥ १ ॥
द्वादशैतानि नामानि गरुडस्य महात्मनः ।
यः पठेत्प्रातरुत्थाय स्नाने वा शयनेऽपि वा ॥ २ ॥
विषं नाक्रामते तस्य न च हिंसन्ति हिंसकाः ।
सङ्ग्रामे व्यवहारे च विजयस्तस्य जायते ।
बन्धनान्मुक्तिमाप्नोति यात्रायां सिद्धिरेव च ॥ ३ ॥
इति बृहद्तन्त्रसारे श्रीगरुडस्य द्वादशनामस्तोत्रम्सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥