॥ श्री गणेशाय नमः ॥
श्रीधूमावतीस्तोत्रम्
प्रातर्यास्यात्कुमारी कुसुमकलिकया जापमालां जपन्ती
मध्याह्ने प्रौढरूपा विकसितवदना चारुनेत्रा निशायाम् ।
सन्ध्यायां वृद्धरूपा गलितकुचयुगा मुण्डमालां वहन्ती
सा देवी देवदेवी त्रिभुवनजननी कालिकापातु युष्मान् ॥ १ ॥
बद्ध्वा खट्वाङ्गकोटौ कपिलवरजटा मण्डलम्पद्मयोनेः
कृत्वादैत्योत्तमाङ्गैः स्रजमुरसिशिरश्शेखरं तार्क्ष्यपक्षैः ।
पूर्णंरक्तैः सुराणां यममहिषमहाशृङ्गमादायपाणौ
पायाद्वोवन्द्यमानः प्रलयमुदितया भैरवः कालरात्र्याम् ॥ २ ॥
चर्वन्तीमस्थिखण्डं प्रकट कटकटा शब्दसङ्घातमुग्रं
कुर्वाणि प्रेतमध्ये कहहकहकहा हास्यमुग्रं कृशांङ्गी ।
नित्यं न्नित्यप्रसक्तां डमरुडिमडिमां स्फारयन्तीं मुखाब्जं
पायान्नश्चण्डिकेयं झझमझमझमा जल्पमाना भ्रमन्ती ॥ ३ ॥
टण्टण्टण्टण्टटण्टा ण्रकट टमटमा नाटघण्टां वहन्ती
स्फें स्फें स्फें स्फारकारा टकटकितहसा नादसङ्घट्ट भीमा ।
लोलम्मुण्डाग्रमाला ललहलहलहा लोललोलाग्रवाचं
चर्वन्तीचण्डमुण्डं मटमटमटिते चर्यषन्ती पुनातु ॥ ४ ॥
वामे कर्णे मृगाङ्कं पलयपरिगतं दक्षिणे सूर्यबिम्बं
कण्ठे नक्षत्रहारं वरविकटजटाजूटके मुण्डमालाम् ।
स्कन्धेकृत्वोरगेन्द्रध्वजनिकरयुतं ब्रह्मकङ्कालभारं
संहारे धारयन्ती ममहरतुभयं भद्रदा भद्रकाली ॥ ५ ॥
तैलाभ्यक्तैकवेणी त्रपुमयविलसत् । कर्णिकाक्रान्तकर्णा
लौहेनैकेन कृत्वाचरणनलिनकामात्मनः पादशोभाम् ।
दिग्वासा रासभेन ग्रसतिजगदिदं मायया कर्णपूरा
वर्षिण्यातिप्रबद्धा ध्वजविततभुजा सासिदेवित्वमेव ॥ ६ ॥
सङ्ग्रामे हेतिकृत्वैस्सरुधिरदशनैर्यद्भटानां
शिरोभिर्मालामाबद्ध्यमूर्ध्नि ध्वजविततभुजा त्वं श्मशाने प्रविष्टा ।
दृष्टा भूतप्रभूतैः पृथुतरजघना बद्धनागेन्द्र काञ्ची
शूलग्रव्यग्रहस्ता मधुरुधिरसदा ताम्रनेत्रा निशायाम् ॥ ७ ॥
दंष्ट्रा रौद्रेमुखेऽस्मिंस्तवविशतिजगद्देवि सर्वं क्षणार्धात्
संसारस्यान्तकाले नररुधिरवशासम्प्लवेभूमधूम्रे ।
कालीकापालिकी सा शवशयनतरा योगिनी योगमुद्रा
रक्तारुद्धिः सभास्था मरणभयहरा त्वं शिवा चण्डघण्टा ॥ ८ ॥
धूमावत्यष्टकं पुण्यं सर्वापद्विनिवारकम् ।
यः पठेत्साधको भक्त्या सिद्धिं विन्दति वाञ्छिताम् ॥ ९ ॥
महापदि महाघोरे महारोगे महारणे ।
शत्रूच्चाटे मारणादौ जन्तूनां मोहने तथा ॥ १० ॥
पठेत्स्तोत्रमिदं देवि सर्वत्र सिद्धिभाग्भवेत् ।
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ॥ ११ ॥
सिंह व्याघ्रादिकास्सर्वे स्तोत्र स्मरणमात्रतः ।
दूराद्दूरतरं यान्ति किं पुनर्मानुषादयः ॥ १२ ॥
स्तोत्रेणानेन देवेशि किं न सिद्ध्यति भूतले ।
सर्वशान्तिर्भवेद्देविह्यन्ते निर्वाणतां व्रजेत् ॥ १३ ॥
इत्यूर्ध्वाम्नाये धूमावती स्तोत्रं समाप्तम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥