॥ श्री गणेशाय नमः ॥
श्रीधूमावतीहृदयम्
॥ श्रीउमामहेश्वराभ्यां नमः ॥
॥ श्रीधूमावत्यै नमः ॥
अथ विनियोगः ।
ॐ अस्य श्रीधूमावतीहृदयस्तोत्रमन्त्रस्य पिप्पलाद ऋषिः ।
अनुष्टुप्छन्दः । श्रीधूमावती देवता । धूं बीजम् । ह्रीं शक्तिः ।
क्लीं कीलकम् । सर्वशत्रुसंहरणे पाठे विनियोगः ॥
अथ हृदयादि षडङ्गन्यासः ।
ॐ धां हृदयाय नमः । ॐ धीं शिरसे स्वाहा ।
ॐ धूं शिखायै वषट् । ॐ धैं कवचाय हुम् ।
ॐ धौं नेत्रत्रयाय वौषट् । ॐ धः अस्त्राय फट् ॥
अथ करन्यासः ।
ॐ धां अङ्गुष्ठाभ्यां नमः । ॐ धीं तर्जनीभ्यां नमः ।
ॐ धूं मध्यमाभ्यां नमः । ॐ धैं अनामिकाभ्यां नमः ।
ॐ धौं कनिष्ठिकाभ्यां नमः । ॐ धः करतलकरपृष्ठाभ्यां नमः ॥
अथ ध्यानम् ।
ॐ धूम्राभां धूम्रवस्त्रां प्रकटितदशनां मुक्तवालाम्बराढ्यां
काकाङ्कस्यन्दनस्थां धवलकरयुगां शूर्पहस्तातिरूक्षाम् ।
नित्यं क्षुत्क्षान्तदेहां मुहुरतिकुटिलां वारिवाञ्छाविचित्रां
ध्यायेद्धूमावतीं वामनयनयुगलां भीतिदां भीषणास्याम् ॥ १ ॥
अथ हृदयं ।
कल्पादौ या कालिकाद्याऽचीकलन्मधुकैटभौ ।
कल्पान्ते त्रिजगत्सर्वं धूमावतीं भजामि ताम् ॥ २ ॥
गुणागाराऽगम्यगुणा या गुणा गुणवर्द्धिनी ।
गीतावेदार्थतत्त्वज्ञैर्धूमावतीं भजामि ताम् ॥ ३ ॥
खट्वाङ्गधारिणी खर्वा खण्डिनी खलरक्षसाम् ।
धारिणी खेटकस्यापि धूमावतीं भजामि ताम् ॥ ४ ॥
घूर्णा घूर्णकरा घोरा घूर्णिताक्षी घनस्वना ।
घातिनी घातकानां या धूमावतीं भजामि ताम् ॥ ५ ॥
चर्वन्तीमस्थिखण्डानां चण्डमुण्डविदारिणीम् ।
चण्डाट्टहासिनीं देवीं भजे धूमावतीमहम् ॥ ६ ॥
छिन्नग्रीवां क्षताच्छन्नां छिन्नमस्तास्वरूपिणीम् ।
छेदिनीं दुष्टसङ्घानां भजे धूमावतीमहम् ॥ ७ ॥
जाता या याचिता देवैरसुरणां विघातिनी ।
जल्पन्ती बहु गर्जन्ती भजे तां धूम्ररूपिणीम् ॥ ८ ॥
झङ्कारकारिणीं झञ्झां झञ्झमाझमवादिनीम् ।
झटित्याकर्षिणीं देवीं भजे धूमावतीमहम् ॥ ९ ॥
टीपटङ्कारसंयुक्तां धनुष्टङ्कारकारिणीम् ।
घोरां घनघटाटोपां वन्दे धूमावतीमहम् ॥ १० ॥
ठं ठं ठं ठं मनुप्रीतिं ठः ठः मन्त्रस्वरूपिणीम् ।
ठमकाह्वगतिप्रीतां भजे धूमावतीमहम् ॥ ११ ॥
डमरूडिण्डिमारावां डाकिनीगणमण्डिताम् ।
डाकिनीभोगसन्तुष्टां भजे धूमावतीमहम् ॥ १२ ॥
ढक्कानादेन सन्तुष्टां ढक्कावादकसिद्धिदाम् ।
ढक्कावादचलच्चित्तां भजे धूमावतीमहम् ॥ १३ ॥
तत्त्ववार्त्ताप्रियप्राणां भवपाथोधितारिणीम् ।
तारस्वरूपिणीं तारां भजे धूमावतीमहम् ॥ १४ ॥
थां थीं थूं थें मन्त्ररूपां थैं थौं थं थः स्वरूपिणीम् ।
थकारवर्णसर्वस्वां भजे धूमावतीमहम् ॥ १५ ॥
दूर्गास्वरूपिणीं देवीं दुष्टदानवदारिणीम् ।
देवदैत्यकृतध्वंसां वन्दे धूमावतीमहम् ॥ १६ ॥
ध्वान्ताकारान्धकध्वंसां मुक्तधम्मिल्लधारिणीम् ।
धूमधाराप्रभां धीरां भजे धूमावतीमहम् ॥ १७ ॥
नर्त्तकीनटनप्रीतां नाट्यकर्मविवर्द्धिनीम् ।
नारसिंहीन्नराराध्यां नौमि धूमावतीमहम् ॥ १८ ॥
पार्वतीपतिसम्पूज्यां पर्वतोपरिवासिनीम् ।
पद्मारूपां पद्मपूज्यां नौमि धूमावतीमहम् ॥ १९ ॥
फूत्कारसहितश्वासां फट्मन्त्रफलदायिनीम् ।
फेत्कारिगणसंसेव्यां सेवे धूमावतीमहम् ॥ २० ॥
बलिपूज्यां बलाराध्यां बगलारूपिणीं वराम् ।
ब्रह्मादिवन्दितां विद्यां वन्दे धूमावतीमहम् ॥ २१ ॥
भव्यरूपां भवाराध्यां भुवनेशीस्वरूपिणीम् ।
भक्तभव्यप्रदान्देवीं भजे धूमावतीमहम् ॥ २२ ॥
मायां मधुमतीं मान्यां मकरध्वजमानिताम् ।
मत्स्यमांसमदास्वादां मन्ये धूमावतीमहम् ॥ २३ ॥
योगयज्ञप्रसन्नास्यां योगिनीपरिसेविताम् ।
यशोदां यज्ञफलदां यजे धूमावतीमहम् ॥ २४ ॥
रामाराध्यपदद्वन्द्वां रावणध्वंसकारिणीम् ।
रमेशरमणीं पूज्यामहं धूमावतीं श्रये ॥ २५ ॥
लक्षलीलाकलालक्ष्यां लोकवन्द्यपदाम्बुजाम् ।
लम्बितां बीजकोशाढ्यां वन्दे धूमावतीमहम् ॥ २६ ॥
बकपूज्यपदाम्भोजां बकध्यानपरायणाम् ।
बालां बकारिसन्ध्येयां वन्दे धूमावतीमहम् ॥ २७ ॥
शाङ्करीं शङ्करप्राणां सङ्कटध्वंसकारिणीम् ।
शत्रुसंहारिणीं शुद्धां श्रये धूमावतीमहम् ॥ २८ ॥
षडाननारिसंहन्त्रीं षोडशीरूपधारिणीम् ।
षड्रसास्वादिनीं सौम्यां सेवे धूमावतीमहम् ॥ २९ ॥
सुरसेवितपादाब्जां सुरसौख्यप्रदायिनीम् ।
सुन्दरीगणसंसेव्यां सेवे धूमावतीमहम् ॥ ३० ॥
हेरम्बजननीं योग्यां हास्यलास्यविहारिणीम् ।
हारिणीं शत्रुसङ्घानां सेवे धूमावतीमहम् ॥ ३१ ॥
क्षीरोदतीरसंवासां क्षीरपानप्रहर्षिताम् ।
क्षणदेशेज्यपादाब्जां सेवे धूमावतीमहम् ॥ ३२ ॥
चतुस्त्रिंशद्वर्णकानां प्रतिवर्णादिनामभिः ।
कृतं तु हृदयस्तोत्रं धूमावत्यां सुसिद्धिदम् ॥ ३३ ॥
य इदं पठति स्तोत्रं पवित्रं पापनाशनम् ।
स प्राप्नोति परां सिद्धिं धूमावत्याः प्रसादतः ॥ ३४ ॥
पठन्नेकाग्रचित्तो यो यद्यदिच्छति मानवः ।
तत्सर्वं समवाप्नोति सत्यं सत्यं वदाम्यहम् ॥ ३५ ॥
इति धूमावतीहृदयं समाप्तम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥