॥ श्री गणेशाय नमः ॥
श्रीभुवनेश्वरीहृदयम्
॥ श्रीउमामहेश्वराभ्यां नमः ॥
देव्युवाच -
भगवन्ब्रूहि तत्स्तोत्रं सर्वकामप्रसाधनम् ।
यस्य श्रवणमात्रेण नान्यच्छ्रोतव्यमिष्यते ॥ १ ॥
यदि मेऽनुग्रहः कार्यः प्रीतिश्चापि ममोपरि ।
तदिदं कथय ब्रह्मन्विमलं यन्महीतले ॥ २ ॥
ईश्वर उवाच -
शृणुदेवि प्रवक्ष्यामि सर्वकामप्रसाधनम् ।
हृदयं भुवनेश्वर्याः स्तोत्रमस्ति यशोदयम् ॥ ३ ॥
विनियोगः ।
ॐ अस्य श्रीभुवनेश्ववरीहृदयस्तोत्रमन्त्रस्य शक्तिरृषिः
गायत्रीछन्दः श्रीभुवनेश्ववरी देवता हकारोबीजम्ईकारः शक्तिः
रेफः कीलकम्सकलमनोवाञ्छितसिद्धयर्थे जपे विनियोगः ॥
हृदयादिषडङ्गन्यासः ।
ॐ ह्रीं हृदयाय नमः । ॐ श्रीं शिरसे स्वाहा ।
ॐ ऐं शिखायै वषट् । ॐ ह्रीं कवचाय हुं ।
ॐ श्रीं नेत्रत्रयाय वौषट् । ॐ ऐं अस्त्राय फट् ॥
करन्यासः ।
ॐ ह्रीं अङ्गुष्ठाभ्यां नमः । ॐ श्रीं तर्जनीभ्यां नमः ।
ॐ ऐं मध्यमाभ्यां नमः । ॐ ह्रीं अनामिकाभ्यां नमः ।
ॐ श्रीं कनिष्ठिकाभ्यां नमः । ॐ ऐं करतलकरपृष्ठाभ्यां नमः ॥
ध्यानम् ।
ध्यायेद्ब्रह्मादिकानां कृतजनिजननीं योगिनीं योगयोनिं
देवानां जीवनायोज्ज्वलितजयपरज्योतिरुग्राङ्गधात्रीम् ।
शङ्खं चक्रं च बाणं धनुरपि दधतीं दोश्चतुष्काम्बुजातैर्मायामाद्यां
विशिष्टां भवभवभुवनां भूभवा भारभूमिम् ॥ ४ ॥
हृदयम् ।
यदाज्ञयेदं गगनाद्यशेषं सृजत्यजः श्रीपतिरौरसं वा ।
बिभर्ति संहन्ति भवस्तदन्ते भजामहे श्रीभुवनेश्वरीं ताम् ॥ ५ ॥
जगज्जनानन्दकरीं जयाख्यां यशस्विनीं यन्त्रसुयज्ञयोनिम् ।
जितामितामित्रकृतप्रपञ्चां भजामहे श्रीभुवनेश्वरीं ताम् ॥ ६ ॥
हरौ प्रसुप्ते भुवनत्रयान्ते अवातरन्नाभिजपद्मजन्मा ।
विधिस्ततोऽन्धे विदधार यत्पदं भजामहे श्रीभुवनेश्वरीं ताम् ॥ ७ ॥
न विद्यते क्वापि तु जन्म यस्या न वा स्थितिः सान्ततिकीह यस्याः ।
न वा निरोधेऽखिलकर्म यस्या भजामहे श्रीभुवनेश्वरीं ताम् ॥ ८ ॥
कटाक्षमोक्षाचरणोग्रवित्ता निवेशितार्णा करुणार्द्रचित्ता ।
सुभक्तये एति समीप्सितं या भजामहे श्रीभुवनेश्वरीं ताम् ॥ ९ ॥
यतो जगज्जन्म बभूव योनेस्तदेव मध्ये प्रतिपाति या वा ।
तदत्ति यान्तेऽखिलमुग्रकाली भजामहे श्रीभुवनेश्वरीं ताम् ॥ १० ॥
सुषुप्तिकाले जनमध्ययन्त्या यया जनः स्वप्नमवैति किञ्चित् ।
प्रबुद्ध्यते जाग्रति जीव एष भजामहे श्रीभुवनेश्वरीं ताम् ॥ ११ ॥
दयास्फुरत्कोरकटाक्षलाभान्नैकत्र यस्याः प्रलभन्ति सिद्धाः ।
कवित्वमीशित्वमपि स्वतन्त्रा भजामहे श्रीभुवनेश्वरीं ताम् ॥ १२ ॥
लसन्मुखाम्भोरुहमुत्स्फुरन्तं हृदि प्रणिध्याय दिशि स्फुरन्तः ।
यस्याः कृपार्द्रं प्रविकाशयन्ति भजामहे श्रीभुवनेश्वरीं ताम् ॥ १३ ॥
यदानुरागानुगतालिचित्राश्चिरन्तनप्रेमपरिप्लुताङ्गाः ।
सुनिर्भयाः सन्ति प्रमुद्य यस्याः भजामहे श्रीभुवनेश्वरीं ताम् ॥ १४ ॥
हरिर्विरञ्चिर्हर ईशितारः पुरोऽवतिष्ठन्ति प्रपन्नभङ्गाः ।
यस्याः समिच्छन्ति सदानुकूल्यं भजामहे श्रीभुवनेश्वरीं ताम् ॥ १५ ॥
मनुं यदीयं हरमग्निसंस्थं ततश्च वामश्रुतिचन्द्रसक्तम् ।
जपन्ति ये स्युर्हि सुवन्दितास्ते भजामहे श्रीभुवनेश्वरीं ताम् ॥ १६ ॥
प्रसीदतु प्रेमरसार्द्रचित्ता सदा हि सा श्रीभुवनेश्ववरी मे ।
कृपाकटाक्षेण कुबेरकल्पा भवन्ति यस्याः पदभक्तिभाजः ॥ १७ ॥
मुदा सुपाठ्यं भुवनेश्वरीयं सदा सतां स्तोत्रमिदं सुसेव्यम् ।
सुखप्रदं स्यात्कलिकल्मषघ्नं सुशृण्वतां सम्पठतां प्रशस्यम् ॥ १८ ॥
एतत्तु हृदयं स्तोत्रं पठेद्यस्तु समाहितः ।
भवेत्तस्येष्टदा देवी प्रसन्ना भुवनेश्वरी ॥ १९ ॥
ददाति धनमायुष्यं पुण्यं पुण्यमतिं तथा ।
नैष्ठिकीं देवभक्तिं च गुरुभक्तिं विशेषतः ॥ २० ॥
पूर्णिमायां चतुर्दश्यां कुजवारे विशेषतः ।
पठनीयमिदं स्तोत्रं देवसद्मनि यत्नतः ॥ २१ ॥
यत्रकुत्रापि पाठेन स्तोत्रस्यास्य फलं भवेत् ।
सर्वस्थानेषु देवेश्याः पूतदेहः सदा पठेत् ॥ २२ ॥
इति नीलसरस्वतीतन्त्रे भुवनेश्वरीपटले श्रीदेवीश्वरसंवादे
श्रीभुवनेश्ववरी हृदयस्तोत्रं समाप्तम् ॥
इति श्रीमन्त्रमहार्णवे मध्यखण्डे भुवनेश्वरीतन्त्रे सप्तमतरङ्गः ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥