॥ श्री गणेशाय नमः ॥
नवदुर्गा स्तुतिः
६) कात्यायनी - आज्ञाचक्र
चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना ।
कात्यायनी च शुभदा देवी दानवघातिनी ॥
ध्यानम् ।
वन्दे वाञ्छितमनोरथार्थाय चन्द्रार्धकृतशेखराम् ।
सिंहारूढां चतुर्भुजां कात्यायनीं यशस्वनीम् ॥
स्वर्णवर्णामाज्ञाचक्रस्थितां षष्ठदुर्गां त्रिनेत्राम् ।
वराभीतकरां सगपदधरां कात्यायनसुतां भजामि ॥
पटाम्बरपरिधानां स्मेरमुखीं नानालङ्कारभूषिताम् ।
मञ्जीरहारकेयुरकिङ्किणीरत्नकुण्डलमण्डिताम् ॥
प्रसन्नवदनां पल्लवाधरां कान्तकपोलां तुङ्गकुचाम् ।
कमनीयां लावण्यां त्रिवलीविभूषितनिम्ननाभिम् ॥
स्तोत्रम् ।
काञ्चनाभां वराभयपद्मधरां मुकुटोज्ज्वलां ।
स्मेरमुखीं शिवपत्नीं कात्यायनसुते नमोऽस्तुते ॥
पटाम्बरपरिधानां नानालङ्कारभूषितां ।
सिंहास्थितां पद्महस्तां कात्यायनसुते नमोऽस्तुते ॥
परमानन्दमयी देवि परब्रह्म परमात्मा ।
परमशक्तिपरमभक्ति कात्यायनसुते नमोऽस्तुते ॥
विश्वकर्त्रींविश्वभर्त्रींविश्वहर्त्रींविश्वप्रीताम् ।
विश्वचित्तांविश्वातीतां कात्यायनसुते नमोऽस्तुते ॥
कां बीजा कां जपानन्दा कां बीजजपतोषिता ।
कां कां बीजजपासक्तां कां कां सन्तुता ॥
काङ्कारहर्षिणीं कां कां धनदां धनमानसाम् ।
कां बीजजपकारिणीं कां बीजतपमानसाम् ॥
कां कारिणीं कां सूत्रपूजितां कां बीजधारिणीम् ।
कां कीं कूं कैं कौं कः ठः छः स्वाहारूपणी ॥
कवचम् ।
कात्यायनी मुखं पातु कां कां स्वाहास्वरूपणी ।
ललाटं विजया पातु मालिनी नित्यसुन्दरी ॥
कल्याणी हृदयं पातु जया च भगमालिनी ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥