॥ श्री गणेशाय नमः ॥
नवदुर्गा स्तुतिः
३) चन्द्रघण्टा - मणिपुरचक्र
पिण्डजप्रवरारूढा चन्द्रकोपास्त्रकैर्युता ।
प्रसादं तनुतां मह्यं चन्द्रघण्टेति विश्रुता ॥
ध्यानम् ।
वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम् ।
सिंहारूढां दशभुजाञ्चन्द्रघण्टां यशस्वनीम् ॥
कञ्जनाभां मणिपुरस्थितां तृतीयदुर्गां त्रिनेत्राम् ।
खड्गगदात्रिशूलचापधरां पद्मकमण्डलुमालावराभयकराम् ।
पटाम्बरपरिधानां मृदुहास्यां नानालङ्कारभूषिताम् ।
मञ्जीर-हार-केयूर-किङ्किणीरत्नकुण्डलमण्डिताम् ॥
प्रफुल्लवन्दनां बिम्बाधारां कान्तङ्कपोलां तुङ्गकुचाम् ।
कमनीयां लावण्यां क्षीणकटिं नितम्बनीम् ॥
स्त्रोत्रम् ।
आपदुद्धारिणी त्वं हि आद्याशक्तिः शुभा परा ।
अणिमादिसिद्धिदात्रि चन्द्रघण्टे प्रणमाम्यहम् ॥
चन्द्रमुखी इष्टदात्री इष्टमन्त्रस्वरूपणी ।
धनदात्र्यानन्ददात्री चन्द्रघण्टे प्रणमाम्यहम् ॥
नानारूपधारिणी इच्छामयी ऐश्वर्यदायनी ।
सौभाग्यारोग्यदायनी चन्द्रघण्टे प्रणमाम्यहम् ॥
कवचम् ।
रहस्यं शृणु वक्ष्यामि शैवेशि कमलानने ।
श्रीचन्द्रघण्टाकवचं सर्वसिद्धिप्रदायकम् ॥
विना न्यासं विना विनियोगं विना शापोद्धारं विना होमम् ।
स्नानं शौचादिकं नास्ति श्रद्धामात्रेण सिद्धिदम् ॥
कुशिष्याय कुटिलाय वञ्चकाय निन्दाकाय च ।
न दातव्यं न दातव्यं न दातव्यङ्कदाचन ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥