Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

ब­ग­ला­मु­खी­व­र्ण­क­व­च


अ­थ वि­नि­यो­गः । अ­स्य­श्री­ब­ग­ला­मु­खी­व­र्ण­क­व­च­स्य श्री­प­र­मे­श्व­र­ऋ­षिः अ­नु­ष्टु­प्छ­न्दः श्री­ब­ग­ला­मु­खी­दे­व­ता ॐ बी­जं ह्लीं श­क्तिः स्वा­हा की­ल­कं ब­ग­ला­प्र­सा­द­सि­द्ध्य­र्थे ज­पे वि­नि­यो­गः ॥ अ­थ ध्या­न­म् । जि­ह्वा­ग्र­मा­दा­य क­रे­ण दे­वीं वा­मे­न श­त्रू­न्प­रि­पी­ड­य­न्ती­म् । ग­दा­भि घा­ते­न च द­क्षि­णे­न पी­ता­म्ब­रा­ढ्यां द्वि­भु­जां न­मा­मि ॥ अ­थ क­व­च । प्र­ण­वो मे शि­रः पा­तु ल­ला­टे ह्लीं स­दा­ऽव­तु । ब­का­रो भ्रू­यु­गं पा­तु ग­का­रः पा­तु लो­च­ने ॥ १ ॥ ल­का­रः पा­तु मे जि­ह्वां मु­का­रं पा­तु मे श्रु­ति­म् । खी­का­रं पा­तु मे ता­लु स­का­रं चि­बु­कं त­था ॥ २ ॥ व­का­रः पा­तु मे क­ण्ठं स्क­न्धौ पा­तु द­का­र­कः । बा­हू ष्ट­का­र­कः पा­तु क­रौ पा­तु न­का­र­कः ॥ ३ ॥ स्त­नौ व­का­र­कः पा­तु च­का­रो हृ­द­यं म­म । म­का­रः पा­तु मे ना­भौ ख­का­रो ज­ठ­रं म­म ॥ ४ ॥ कु­क्षिं प­का­र­कः पा­तु द­का­रः पा­तु मे क­टि­म् । स्त­का­रो ज­घ­नं पा­तु भ­का­रः पा­तु मे गु­दं ॥ ५ ॥ गु­ह्यं य­का­र­कः पा­तु ज­का­रो­ऽव­तु जा­नु­नी । उ­रू ह्व­का­र­कः पा­तु गु­ल्फौ पा­तु क­का­र­कः ॥ ६ ॥ पा­दौ ल­का­र­कः पा­तु य­का­रो स्छि­ति स­र्व­दा । बु­का­रः पा­तु रो­मा­णि धि­का­र­र­स्तु त्व­चं त­था ॥ ७ ॥ वि­का­रः पा­तु स­र्वा­ङ्गे न­का­रः पा­तु स­र्व­दा । प्रा­च्यां श­का­र­कः पा­तु द­क्षि­णा­शां य­का­र­कः ॥ ८ ॥ वा­रु­णीं ह्लीं स­दा पा­तु कौ­बे­र्यां प्र­ण­वे­न तु । भू­मौ स्व­का­र­कः पा­तु ह­का­रो­र्ध्वं स­दा­ऽव­तु ॥ ९ ॥ ब्र­ह्मा­स्त्र­दे­व­ता पा­तु स­र्वा­ङ्गे स­र्व­स­न्धि­षु । इ­ति­ते क­थि­तं दे­वि दि­व्य­म­ङ्घ­प­ञ्ज­र­म् ॥ १० ॥ आ­यु­रा­रो­ग्य सि­द्ध्य­र्थं म­ह­दै­श्व­र्य­दा­य­क­म् । लि­खि­त्वा ता­ड­प­त्रे तु क­ण्ठे बा­हौ च धा­र­ये­त् ॥ ११ ॥ दे­वा­सु­र­पि­शा­चे­भ्यो भ­यं त­स्य न­हि क्व­चि­त् । क­र्म­णे­न स­न्द्द­र्शो त्रि­षु­लो­के­शु सि­द्ध्य­ते ॥ १२ ॥ म­हा­भ­ये रा­जे तु श­त­वा­रं प­ठे­द्य­ह­म् । गृ­हे र­णे वि­वा­दे च स­र्वा­प­त्ति वि­मु­च्य­ते ॥ १३ ॥ ए­त­त्क­व­च­म­ज्ञा­त्वा यो ब्र­ह्मा­स्त्र­मु­पा­स­ते । न त­स्य सि­ध्य­ते म­न्त्रः क­ल्प­को­टि­श­तै­र­पि ॥ १४ ॥ इ­ति श्री ई­श्व­र­पा­र्व­ति­सं­वा­दे ब­ग­ला­व­र्ण­क­व­चं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥