॥ श्री गणेशाय नमः ॥
तारा प्रत्यङ्गिराकवचम्
॥ ॐ प्रत्यङ्गिरायै नमः ॥
ईश्वर उवाच -
ॐ तारायाः स्तम्भिनी देवी मोहिनी क्षोभिनी तथा ।
हस्तिनी भ्रामिनी रौद्री संहारण्यापि तारिणी ॥ १ ॥
शक्तयोहष्टौ क्रमादेता शत्रुपक्षे नियोजिताः ।
धारिता साधकेन्द्रेण सर्वशत्रु निवारिणी ॥ २ ॥
ॐ स्तम्भिनी स्त्रें स्त्रें मम शत्रुन्स्तम्भय स्तम्भय ॥ ३ ॥
ॐ क्षोभिनी स्त्रें स्त्रें मम शत्रुन्क्षोभय क्षोभय ॥ ४ ॥
ॐ मोहिनी स्त्रें स्त्रें मम शत्रुन्मोहय मोहय ॥ ५ ॥
ॐ जृम्भिनी स्त्रें स्त्रें मम शत्रुन्जृम्भय जृम्भय ॥ ६ ॥
ॐ भ्रामिनी स्त्रें स्त्रें मम शत्रुन्भ्रामय भ्रामय ॥ ७ ॥
ॐ रौद्री स्त्रें स्त्रें मम शत्रुन्सन्तापय सन्तापय ॥ ८ ॥
ॐ संहारिणी स्त्रें स्त्रें मम शत्रुन्संहारय संहारय ॥ ९ ॥
ॐ तारिणी स्त्रें स्त्रें सर्वपद्भ्यः सर्वभूतेभ्यः सर्वत्र
रक्ष रक्ष मां स्वाहा ॥ १० ॥
य इमां धारयेत्विद्यां त्रिसन्ध्यं वापि यः पठेत् ।
स दुःखं दूरतस्त्यक्त्वा ह्यन्याच्छ्त्रुन्न संशयः ॥ ११ ॥
रणे राजकुले दुर्गे महाभये विपत्तिषु ।
विद्या प्रत्यङ्गिरा ह्येषा सर्वतो रक्षयेन्नरं ॥ १२ ॥
अनया विद्यया रक्षां कृत्वा यस्तु पठेत्सुधी ।
मन्त्राक्षरमपि ध्यायन्चिन्तयेत्नीलसरस्वतीं ।
अचिरे नैव तस्यासन्करस्था सर्वसिद्धयः
ॐ ह्रीं उग्रतारायै नीलसरस्वत्यै नमः ॥ १३ ॥
इमं स्तवं धीयानो नित्यं धारयेन्नरः ।
सर्वतः सुखमाप्नोति सर्वत्रजयमाप्नुयात् ॥ १४ ॥
नक्कापि भयमाप्नोति सर्वत्रसुखमाप्नुयात् ॥ १५ ॥
इति रुद्रयामले श्रीमदुग्रतराया
प्रत्यङ्गिरा कवचं समाप्तम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥