॥ श्री गणेशाय नमः ॥
सुदर्शनषट्कम्
सहस्रादित्यसङ्काशं सहस्रवदनं परम् ।
सहस्रदोस्सहस्रारं प्रपद्येऽहं सुदर्शनम् ॥ १ ॥
रणत्कङ्किणिजालेन राक्षसघ्नं महाद्भुतम् ।
व्याप्तकेशं विरूपाक्षं प्रपद्येऽहं सुदर्शनम् ॥ २ ॥
प्राकारसहितं मन्त्रं वदन्तं शत्रुनिग्रहम् ।
भूषणैर्भूषितकरं प्रपद्येऽहं सुदर्शनम् ॥ ३ ॥
पुष्करस्थमनिर्देश्यं महामन्त्रेण संयुतम् ।
शिवं प्रसन्नवदनं प्रपद्येऽहं सुदर्शनम् ॥ ४ ॥
हुङ्कारभैरवं भीमं प्रपन्नार्तिहरं प्रियम् ।
सर्वपापप्रशमनं प्रपद्येऽहं सुदर्शनम् ॥ ५ ॥
अनन्तहारकेयूरमुकुटादिविभूषितम् ।
सर्वपापप्रशमनं प्रपद्येऽहं सुदर्शनम् ॥ ६ ॥
एतैष्षड्भिस्तुतो देवो भगवाञ्च्छ्रीसुदर्शनः ।
रक्षां करोति सर्वत्र सर्वत्र विजयी भवेत् ॥ ७ ॥
इति सुदर्शनषट्कं सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥