॥ श्री गणेशाय नमः ॥
श्रीयोगेश्वरीकवचम्
॥ श्रीयोगेश्वर्यै नमः ॥
देव्युवाच -
भगवन्सर्वमाख्यातं मन्त्रयन्त्रादिकं त्वया ।
योगिन्याः कवचन्देव न कुत्रापि प्रकाशितम् ॥ १ ॥
श्रोतुमिच्छाम्यहं देव कृपापात्रं तवास्म्यहम् ।
कथयस्व महादेव यद्यहं तव वल्लभा ॥ २ ॥
ईश्वर उवाच -
शृणुदेवि महाविद्यां सर्वदेवप्रपूजिताम् ।
यस्याः कटाक्षमात्रेण त्रैलोक्यविजयी हरिः ॥ ३ ॥
सृष्टिकर्ता भवेद्ब्रह्मा संहर्ताहं तथैवच ।
यस्याः स्मरणमात्रेण देवादेवत्वमाप्नुयुः ॥ ४ ॥
रहस्यं शृणुवक्ष्यामि योगेश्याः प्राणवल्लभे ।
त्रैलोक्यविजयं नाम कवचं मन्त्र विग्रहम् ॥ ५ ॥
विनियोगः ।
अस्य श्रीयोगेश्वरीकवचस्य महादेवऋषिः अनुष्टुप्छन्दः
श्रीयोगेश्वरीदेवता ऐंबीजम्ह्रींशक्तिः श्रींकीलकम्
मम योगेश्वरीप्रसादसिद्ध्यर्थे जपे विनियोगः ॥
अथन्यासः ।
श्रीमहादेव ऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे ।
श्रीयोगेश्वरी देवतायै नमः हृदये । ऐं बीजाय नमः दक्षिणस्तने ।
ह्रीं शक्तये नमः वामस्तने । श्रीं कीलकाय नमः नाभौ ॥
ऐं अङ्गुष्ठाभ्यां नमः । ह्रीं तर्जनीभ्यां नमः ।
श्रीं मध्यमाभ्यां नमः । ऐं अनामिकाभ्यां नमः ।
ह्रीं कनिष्ठिकाभ्यां नमः । श्रीं करतलकरपृष्ठाभ्यां नमः ॥
ऐं हृदयायनमः । ह्रीं शिररोस्वाहा ।
श्रीं शिखायै वषट् । ऐं कवचाय हुं ।
ह्रीं नेत्रत्रयाय वौषट् । श्रीं अस्त्रायफट् ।
भूर्भुवः स्वरोमिति दिग्बन्धः ॥
अथ ध्यानम् ।
खड्गपात्रं च मुसलं लाङ्गलं च बिभर्ति सा ।
आख्याता रक्तचामुण्डा देवी योगेश्वरी तथा ॥
इति ध्यात्वा पञ्चोपचारैः सम्पूज्य कवचं पठेत् ॥
अथ कवचम् ।
शिरो मे शाङ्करी पातु मूर्ध्नि नारायणी तथा ।
ऐं बीजा भालदेशेतु ह्रीं बीजं दक्षनेत्रके ॥ १ ॥
श्रीं बीजं वामनेत्रे च दक्षश्रोत्रे परास्मृता ।
वामश्रोत्रे नारसिंही नासामूलञ्च खड्गिनी ॥ २ ॥
नासिकां मानिनी पातु मुखं मेऽवतु चाम्बिका ।
कपोलौ भूतसंहारी चुबुकं भ्रामरी तथा ॥ ३ ॥
कण्ठं मे चण्डिका पातु हृदयं विन्ध्यवासिनी ।
उदरे गिरिजा पातु नाभिं मेवऽतु भोगिनी ॥ ४ ॥
शुम्भिनी पृष्ठदेशे च स्कन्धयोः शूलधारिणी ।
हस्तयोर्योगिनी रक्षेत्कम्बुकण्ठ्यङ्गुलीस्तथा ॥ ५ ॥
कट्यां च सुन्दरी रक्षेद्गुह्यं गुह्येश्वरी तथा ।
कुब्जिका पातु मे मेढ्रं पातु देशेच शाम्भवी ॥ ६ ॥
भद्रकाली पातु चोर्वो जान्वोर्मेऽवतु कालिका ।
जङ्घे पातु महाभीमा गुल्फयोर्वतुशूलिनी ॥ ७ ॥
पादयोः श्रीधरी रक्षेत्सर्वाङ्गे योगिनी वतु ।
रक्तमज्जावसामांसान्यस्थिमेदांसि भैरवी ॥ ८ ॥
चामुण्डा चैव वाराही कौमारी वैष्णवी तथा ।
माहेश्वरी च सर्वाद्या जयश्रीर्मङ्गला तथा ॥ ९ ॥
रक्षन्तु स्वायुधैर्दिक्षु मां विदिक्षु यथा तथा ।
इतीदं कवचं दिव्यं पठनात्सर्वसिद्धिदम् ॥ १० ॥
स्मरणात्कवचस्यास्य जयः सर्वत्र जायते ।
राजद्वारे स्मशाने च भूतप्रेताभिचारके ॥ ११ ॥
बन्धने च महादुःखे जपेच्छत्रुसमागमे ।
प्रयोगञ्चाभिचारं च यो नरः कर्तुमिच्छति ॥ १२ ॥
अयुताच्च भवेत्सिद्धिः पठनात्कवचस्य तु ।
सर्वत्र लभते कीर्तिः श्रीमान्भवति धार्मिकः ॥ १३ ॥
भूर्जपत्रे लिखित्वा तु कवचं यस्तु धारयेत् ।
मन्त्रसिद्धिमवाप्नोती योगेश्वर्याः प्रसादतः ॥ १४ ॥
पुत्रवान्धनवान्छ्रीमान्नानाविद्यानिधिर्भवेत् ।
ब्रह्मास्त्रादीनि शस्त्राणि नश्यन्ति पठनाच्च वै ॥ १५ ॥
इदं कवचमज्ञात्वा योगिनीं लभते न च ।
शतलक्षप्रजप्त्वापि तस्य विद्या न सिद्ध्यति ॥ १६ ॥
इति श्रीरुद्रयामले बहुरूपाष्टकप्रस्तावे
ईश्वरपार्वतीसंवादे योगेश्वरीकवचं सम्पूर्णम् ॥
अथ मूल मन्त्रः ।
ॐ ह्रीं नमो भगवति रक्तचामुण्डे योगेश्वरी
योगिनीं ह्रीं स्वाहा इति मन्त्रः
रक्तचामुण्डायै विघ्नहे भूत संहारिण्यैच धीमहि ।
तन्नो योगेश्वरी प्रचोदयात् ॥
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपं ।
सिद्धिर्भवतु मे देवी त्वप्रसादात्त्वयि स्थितिः ॥
लं हं यं रं वं ॥
अथ महामन्त्रः ।
ॐ अस्य श्रीयोगेश्वरी महामन्त्रस्य महादेवऋषिः अनुष्टुप्छन्दः
श्रीयोगेश्वरीदेवता ह्रींबीजम्श्रींशक्तिः क्लींकीलकम्
मम चतुर्विधपुरुषार्थसिद्ध्यर्थे जपे विनियोगः ॥
अथ हृदयादि न्यासः ।
ॐ ह्रीं अङ्गुष्ठाभ्यां नमः । ॐ यं तर्जनीभ्यां नमः ।
ॐ यां मध्यमाभ्यां नमः । ॐ रुद्रद्रेवत्या अनामिकाभ्यां नमः ।
ॐ योगेश्वर्यै कनिष्ठिकाभ्यां नमः । ॐ स्वाहा करतलकरपृष्ठाभ्यां नमः ॥
अथ ध्यानम् ।
ॐ देवीं भक्तजनप्रियां सुवदनां खड्गं च पाशं तथा
स्वर्णालङ्कृतलाङगलं सुमुसलं हस्तैर्दधानां श्रियम् ।
विद्युत्कोटिरवीन्दुकान्ति धवलां दन्तासुरोन्मूलिनीं
ब्रह्मेन्द्राद्यभिवन्दितां च वरदां योगेश्वरीं संभजे ॥ १ ॥
लं पृथिव्यादि पञ्चमानसोपचारैः सम्पूज्य जपेत् ।
अथ मन्त्रः ।
ॐ ह्रीं यं यां रुद्रदेवतायै योगेश्वर्यै स्वाहा ॥
उत्तर न्यासं कृत्या गुह्यातिगुह्यगोप्त्रीत्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिभर्वतु मे देवित्वत्प्रसादात्सुरेश्वरि ॥
॥ इति श्रीयोगेश्वरीकवचम् ॥
॥ श्रीयोगेश्वर्यै नमः ॥
॥ ॐ ॐ ॐ ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥