॥ श्री गणेशाय नमः ॥
श्रीवृन्दावनाष्टकम्
मुकुन्दमुरलीरवश्रवणफुल्लहृद्वल्लरी कदम्बककरम्बितप्रतिकदम्बकुञ्जान्तरा ।
कलिन्दगिरिनन्दिनीकमलकन्दलान्दोलिना सुगन्धिरनिलेन मे शरणमस्तु वृन्दाटवी ॥ १ ॥
विकुण्ठपुरसंश्रयाद्विपिनतोऽपि निःश्रेयसात्सहस्रगुणितां श्रियं प्रदुहती रसश्रेयसीम् ।
चतुर्मुखमुखैरपि स्पृहिततार्णदेहोद्भवा जगद्गुरुभिरग्रिमैः शरणमस्तु वृन्दाटवी ॥ २ ॥
अनारतविकस्वरव्रततिपुञ्जपुष्पावली विसारिवरसौरभोद्गमरमाचमत्कारिणी ।
अमन्दमकरन्दभृद्विटपिवृन्दवृन्दीकृत द्विरेफकुलवन्दिता शरणमस्तु वृन्दाटवी ॥ ३ ॥
क्षणद्युतिघनश्रियोव्रजनवीनयूनोः पदैः सुवग्लुभिरलङ्कृता ललितलक्ष्मलक्ष्मीभरैः ।
तयोर्नखरमण्डलीशिखरकेलिचर्योचितैर्वृता किशलयाङ्कुरैः शरणमस्तु वृन्दाटवी ॥ ४ ॥
व्रजेन्द्रसखनन्दिनीशुभतराधिकारक्रिया प्रभावजसुखोत्सवस्फुरितजङ्गमस्थावरा ।
प्रलम्बदमनानुजध्वनितवंशिकाकाकली रसज्ञमृगमण्डला शरणमस्तु वृन्दाटवी ॥ ५ ॥
अमन्दमुदिरार्बुदाभ्यधिकमाधुरीमेदुर व्रजेन्द्रसुतवीक्षणोन्नट्ण्तनीलकण्ठोत्करा ।
दिनेशसुहृदात्मजाकृतनिजाभिमानोल्लसल्लताखगमृगाङ्गना शरणमस्तु वृन्दाटवी ॥ ६ ॥
अगण्यगुणनागरीगणगरिष्ठगान्धर्विका मनोजरणचातुरीपिशुनकुञ्जपुञ्जोज्ज्वला ।
जगत्त्रयकलागुरोर्ललितलास्यवल्गत्पद प्रयोगविधिसाक्षिणी शरणमस्तु वृन्दाटवी ॥ ७ ॥
वरिष्ठहरिदासतापदसमृद्धगोवर्धना मधूद्वहवधूचमत्कृतिनिवासरासस्थला ।
अगूढगहनश्रियो मधुरिमव्रजेनोज्ज्वला व्रजस्य सहजेन मे शरणमस्तु वृन्दाटवी ॥ ८ ॥
इदं निखिलनिष्कुटावलिवरिष्ठवृन्दाटवी गुणस्मरणकारि यः पठति सुष्ठु पद्याष्टकम् ।
वसन्व्यसनमुक्तधीरनिशमत्र सद्वासनः स पीतवसने वशी रतिमवाप्य विक्रीडति ॥ ९ ॥
इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीवृन्दावनाष्टकं सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥