॥ श्री गणेशाय नमः ॥
श्रीउच्छिष्टमहागणपति ध्यानम्
मूलाधारे सुयोन्याख्ये चिदग्निवरमण्डले ।
समासीनं पराशक्तिविग्रहं गणनायकम् ॥ १ ॥
रक्तोत्पलसमप्रख्यं नीलमेघसमप्रभम् ।
रत्नप्रभालसद्दीप्तमुकुटाञ्चितमस्तकम् ॥ २ ॥
करुणारससुधाधारास्रवदक्षित्रयान्वितम् ।
अक्षिकुक्षिमहावक्षः गण्डशूकादिभूषणम् ॥ ३ ॥
पाशाङ्कुशेक्षुकोदण्डपञ्चबाणलसत्करम् ।
नीलकान्तिघनीभूतनीलवाणीसुपार्श्वकम् ॥ ४ ॥
सुत्रिकोणाख्यनीलाङ्गरसास्वादनतत्परम् ।
पत्न्यालिङ्गतवामाङ्गं सप्तमातृनिषेवितम् ॥ ५ ॥
ब्रह्मविष्णुमहेन्द्रादिसम्प्रपूजितपादुकम् ।
महद्द्वयपदोवाच्यपादुकामन्त्रसारकम् ॥ ६ ॥
नवावरणयज्ञाख्य वरिवस्याविधिप्रियम् ।
पञ्चावरणयज्ञाख्य विधिसम्पूज्यपादुकम् ॥ ७ ॥
अखण्डकोटिब्रह्माण्डामण्डलेश्वरमव्ययम् ।
रदनाक्षरसम्पूर्णमन्त्रराजस्वरूपिणम् ॥ ८ ॥
गिरिव्याहृतिवर्णात्ममन्त्रतत्वप्रदर्शकम् ।
अरुणारुणतनुच्छायमहाकामकलात्मकम् ॥ ९ ॥
महागोप्यमहाविद्या प्रकाशितकलेबरम् ।
चिच्छिवं चिद्भवं शान्तं त्रिगुणादिविवर्जितम् ॥ १० ॥
अष्टोत्तरशताभिख्यकलान्यासविधिप्रियम् ।
चिदाकारमहाद्वीपमध्यवाससुविग्रहम् ॥ ११ ॥
चिदब्धिमथनोत्पन्नचित्सारघनविग्रहम् ।
वाचामगोचरं शान्तं शुद्धचैतन्यरूपिणम् ॥ १२ ॥
मूलकन्दस्थचिद्देशनवताण्डवपण्डितम् ।
षडम्बुरुहसंस्थायिपरचिव्द्योमभासुरम् ॥ १३ ॥
अकारादिक्षकारान्तवर्णलक्षितचित्सुखम् ।
अकाराक्षरनिर्दिष्टप्रकाशमयविग्रहम् ॥ १४ ॥
हकाराख्यविमर्शात्मप्रभादीप्तजगत्त्रयम् ।
महाहंसजपध्यानविधिज्ञातस्वरूपकम् ॥ १५ ॥
सदोदितमहाप्रज्ञाकारं संसारतारकम् ।
मोक्षलक्ष्मीप्रदातारं कालातीतमहाप्रभुम् ॥ १६ ॥
नामरूपादिसम्भिन्ननित्यपूर्णचिदुत्तमम् ।
प्रत्यग्भूतमहाप्रज्ञागात्रगोचरविग्रहम् ॥ १७ ॥
महाकुण्डलिनीरूपं षट्च्क्रनगरेश्वरम् ।
अप्राकृतमहादिव्यचैतन्यात्मस्वरूपिणम् ॥ १८ ॥
नादबिन्दुकलातीतं कार्यकारणवर्जितम् ।
षडम्बुरुहचक्रान्तः स्फुरत्सौदामिनीप्रभम् ॥ १९ ॥
तत्त्वमस्यादिवाक्यार्थपरिबोधनपण्डितम् ।
ब्रह्मादिकीटपर्यन्तव्याप्तसंवित्सुधारसम् ॥ २० ॥
इच्छाज्ञानक्रियानन्दसर्वतन्त्र स्वतन्त्रिणम् ।
हृदयग्रन्थिभिद्विद्यादर्शनोत्सुकमानसम् ॥ २१ ॥
पञ्चकृत्यपरेशानं महात्रैपुरविग्रहम् ।
श्रीचक्रराजमध्यस्थशून्यग्राममहेश्वरम् ॥ २२ ॥
ब्रह्मविद्यास्वरूपश्रीललितारूपधारिणम् ।
वशिन्याद्यावृतं साध्यं अद्वयानन्दवर्धनम् ॥ २३ ॥
आदिशङ्कररूपेशदक्षिणामूर्तिपूजितम् ।
असंस्पृष्टमहाप्रज्ञाभिख्याद्वैतस्थितिप्रभम् ॥ २४ ॥
एवं सञ्चितयेद्देवं उच्छिष्टगणनायकम् ।
नीलतारासमेतं तु सच्चिदानन्दविग्रहम् ॥ २५ ॥
इति श्रीउच्छिष्टमहागणपति ध्यानं सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥