॥ श्री गणेशाय नमः ॥
श्रीसुब्रह्मण्यमङ्गळाष्टकम्
शिवयोसूनुजायास्तु श्रितमन्दार शाखिने ।
शिखिवर्यातुरंगाय सुब्रह्मण्याय मङ्गळं ॥ १ ॥
भक्ताभीष्टप्रदायास्तु भवमोग विनाशिने ।
राजराजादिवन्द्याय रणधीराय मङ्गळं ॥ २ ॥
शूरपद्मादि दैतेय तमिस्रकुलभानवे ।
तारकासुरकालाय बालकायास्तु मङ्गळं ॥ ३ ॥
वल्लीवदनराजीव मधुपाय महात्मने ।
उल्लसन्मणि कोटीर भासुरायास्तु मङ्गळं ॥ ४ ॥
कन्दर्पकोटिलावण्यनिधये कामदायिने ।
कुलिशायुधहस्ताय कुमारायास्तु मङ्गळं ॥ ५ ॥
मुक्ताहारलसत्कुण्ड राजये मुक्तिदायिने ।
देवसेनासमेताय दैवतायास्तु मङ्गळं ॥ ६ ॥
कनकांबरसंशोभि कटये कलिहारिणे ।
कमलापति वन्द्याय कार्तिकेयाय मङ्गळं ॥ ७ ॥
शरकाननजाताय शूराय शुभदायिने ।
शीतभानुसमास्याय शरण्यायास्तु मङ्गळं ॥ ८ ॥
मंगळाष्टकमेतन्ये महासेनस्यमानवाः ।
पठन्ती प्रत्यहं भक्त्याप्राप्नुयुस्तेपरां श्रियं ॥ ९ ॥
इति सुब्रह्मण्य मङ्गळाष्टकं सम्पूर्णं ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥