॥ श्री गणेशाय नमः ॥
श्रीशुक्रस्तोत्रम्
ॐ कवीश्वर नमस्तुभ्यं हव्यकव्यविदां वर ।
उपासक सरस्वत्या मृतसञ्जीवनप्रिय ॥ १ ॥
दैत्यपूज्य नमस्तुभ्यं दैत्येन्द्रशासनाकर ।
नीतिशास्त्रकलाभिज्ञ बलिजीवप्रभावन ॥ २ ॥
प्रह्लादपरमाह्लाद विरोचनगुरो सित ।
आस्फूर्जज्जितशिष्यारे नमस्ते भृगुनन्दन ॥ ३ ॥
सुराशन सुरारातिचित्तसंस्थितिभावन ।
उशना सकलप्राणिप्राणाश्रय नमोऽस्तु ते ॥ ४ ॥
नमस्ते खेचराधीश शुक्र शुक्लयशस्कर ।
वारुण वारुणीनाथ मुक्तामणिसमप्रभ ॥ ५ ॥
क्षीबचित्त कचोद्भूतिहेतो जीवरिपो नमः ।
देवयानीययातीष्ट दुहितृस्थेयवत्सल ॥ ६ ॥
वह्निकोणपते तुभ्यं नमस्ते खगनायक ।
त्रिलोचन तृतीयाक्षिसंस्थित शुकवाहन ॥ ७ ॥
इत्थं दैत्यगुरोः स्तोत्रं यः स्मरेन्मानवः सदा ।
दशादौ गोचरे तस्य भवेद्विघ्नहरः सितः ॥ ८ ॥
सोमतुल्या प्रभा यस्य चासुराणां गुरुस्तथा ।
जेता यः सर्वशत्रूणां स काव्यः प्रीयतां मम ॥ ९ ॥
इति श्रीशुक्रस्तोत्रं सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥