॥ श्री गणेशाय नमः ॥
श्रीशूलिनीकवचम्
श्रीशिवः उवाच -
अथ वक्ष्ये महागुह्यं कवचं सर्वसिद्धिदम् ।
समाहितेन मनसा शृणु कल्याणि तादृशम् ॥ १ ॥
शूलिन्याः कवचं दिव्यं जगद्रक्षणवर्धनम् ।
सर्वसिद्धिप्रदं श्रेष्ठं सर्वपापप्रणाशनम् ॥ २ ॥
सर्वमङ्गलमाङ्गल्यं सर्वैश्वर्यप्रदायकम् ।
ब्रह्मज्ञानप्रदं हृद्यं भीषणं जयवर्धनम् ॥ ३ ॥
सर्वरोगहरं शान्तं सर्वरक्षाकरं परम् ।
कवचस्य ऋषिर्देव्या मृत्युञ्जय उदाहृतः ॥ ४ ॥
उष्णिक्छन्दस्तथा देवि देवता जगदम्बिका ।
दुं कारं बीजमित्युक्तं स्वाहा शक्तिस्ततः परम् ॥ ५ ॥
सर्वाभीष्टार्थसिध्यर्थे विनियोगो वरानने ।
मायार्णैश्च करन्यासं षडङ्गं प्रणवान्वितम् ॥ ६ ॥
ॐ अस्य श्री शूलिनीकवचस्य मृत्युञ्जय ऋषिः
उष्णिक्छन्दः श्रीजगदम्बिका शूलिनी देवता दुं बीजम्
स्वाहा शक्तिः सर्वाभीष्टार्थसिद्ध्यर्थे (जपे) विनियोगः ॥
ॐ ह्रां ॐ ह्रीमित्यादिभिः कराङ्गन्यासाः ॥
ध्यानम् ।
तापिञ्छस्निग्धवर्णां दशशतवदनां चन्द्ररेखावतंसां
हर्यक्षस्कन्धरूढां द्विदशशतभुजां हाटवासोवृताङ्गीम् ।
ध्यायेऽहं वैरिलोकग्रसनपरिणता क्रीडनालोलजिह्वां
देवीं क्रुद्धां सुमेधां प्रणतभयहरां शिक्षिताशेषलोकाम् ॥
जयेश्वर्यग्रतः पातु पृष्ठतो विजयेश्वरी ।
अजिता वामतः पातु दक्षिणं मेऽपराजिता ॥ १ ॥
ब्रह्माणी पातु केशाग्रं शिवा पातु शिरो मम ।
अम्बिका मेऽलकं पातु मुखं हैमवती तथा ॥ २ ॥
भवानी पातु नासाग्रं घ्राणं माहेश्वरी तथा ।
वाराही नयनं पातु मानस्तोका च दक्षिणम् ॥ ३ ॥
जिह्वां पातु महाविद्या लम्बिकाग्रं सरस्वती ।
सत्यम्बिका ममोर्ध्वोष्ठं लक्ष्मीमेऽर्धरपल्लवम् ॥ ४ ॥
श्रुत्यम्बा पातु मे दन्तान्कौमारी चिबुकं तथा ।
ज्वाला (कण्ठं) भीमस्वना पातु कपोलौ मे (ऽ)भयङ्करी ॥ ५ ॥
इन्द्राणी पातु मे कर्णौ इन्द्रनाथा हनू मम ।
ग्रीवापार्श्वं महाशक्तिः ग्रीवां मे परमेश्वरी ॥ ६ ॥
कराली दक्षिणस्कन्धं वैष्णवी पातु वामकम् ।
शिवेशी दक्षदोर्मूलं शिवदूती च वामकम् ॥ ७ ॥
अच्युता दक्षदोर्दण्डं अनन्ता पातु वामकम् ।
दक्षकूर्परमीशानी त्रिशूली पातु वामकम् ॥ ८ ॥
ज्वालामुखी प्रकोष्ठं मे पातु भद्रा च वामकम् ।
भैरवी मणिबन्धं मे वामं पातु महेश्वरी ॥ ९ ॥
करपृष्ठं तु वाराही विकटाङ्गी तु वामकम् ।
अघोरा दक्षिणाङ्गुष्ठं घोररूपा तु तर्जनीम् ॥ १० ॥
मध्यमां रक्तकेशी चाऽनामिकां तु महाबला ।
माया कनिष्ठिकां पातु पर्वाणि विषनाशिनी ॥ ११ ॥
नखानि मे करालास्या वामाङ्गुष्ठं महोदरी ।
तर्जनीं रक्तचामुण्डी मेघनादा तु मध्यमाम् ॥ १२ ॥
अनामिकां रौद्रमुखी काली पातु कनिष्ठिकाम् ।
पर्वाणि कालरात्रिर्मे नारसिह्मी नखानि मे ॥ १३ ॥
जटिला दक्षिण कक्षं वामकक्षं पयस्विनी ।
वक्षो ज्वालामुखी पातु हृदयं कृष्णपिङ्गला ॥ १४ ॥
नारायणी स्तनद्वन्द्वं रुद्राणी मस्तकाग्रकम् ।
जठरं भद्रकाली मे चण्डिका उदरं तथा ॥ १५ ॥
तद्दक्षिणमनन्ता मे तद्वामः ब्रह्मवादिनी ।
सावित्री पातु नाभिं मे गायत्री मे कटिद्वयम् ॥ १६ ॥
त्वरिता पातु मे गुह्यं पृष्ठभागं शतानना ।
योगेश्वरी गुदं पातु जघनं लोकमोहिनी ॥ १७ ॥
ऊरुयुग्मं वसुमतीं चण्डमुण्डा तु जानुनी ।
जङ्घे कात्यायनी पातु गुल्फे महिषमर्दिनी ॥ १८ ॥
शाकम्भरीं पादपृष्ठे गौरी पादाङ्गुलीर्मम ।
सूक्ष्मा पादतलं पातु पादपार्ष्वं धनञ्जया ॥ १९ ॥
सर्वाङ्गं पातु मे पुष्टिः सर्वसन्दिं मदप्रिया ।
ज्वालिनी रोमकूपाणि वसुधारा त्वचं मम ॥ २० ॥
वसुधा चर्म मे पातु रुधिरं मदनावती ।
तीव्रा मांसद्वयं पातु भेदो मे विघ्ननाशिनी ॥ २१ ॥
ममास्थि भोगदा पातु मज्जां पातु परात्परा ।
पञ्चभूतं रतिःपातु शुक्लं मे कामरूपिणी ॥ २२ ॥
मूलाधारमुमा पातु स्वाधिष्ठानं चिदङ्कुरा ।
अमृता मणिपूरं मेऽनाहतं कमलेक्षणा ॥ २३ ॥
विशुद्धि पातु मे नादा(ऽथा) पातु चाज्ञां परा मम ।
जातवेदोग्निदुर्गा मे ब्रह्मरन्ध्रं सदावतु ॥ २४ ॥
शूलिनौ सकलं पातु अनुक्ताङ्गं महाबला ।
जागरूकास्ववस्थासु मम पद्मावती तथा ॥ २५ ॥
शङ्करी पातु मे पुत्रान्पुत्रीं च कमलासना ।
सहजान्शाम्भवी पातु सुभगा सुमुखं मम ॥ २६ ॥
व्योमकेशी कुलद्वन्द्वं इष्टान्दुष्टापहारिणी ।
भवनं भुवनाकारा नगरं नगरेश्वरी ॥ २७ ॥
द्राविणी पातु राज्य मे राजानं क्षोभनाशिनी ।
राष्ट्रं च महती पातु प्रजां सर्ववशङ्करी ॥ २८ ॥
श्रीदेवी धनधान्यं मे सर्वदा सर्वसम्पदः ।
इति गुह्यं महावीर्यं देव्या कवचमद्भुतम् ॥ २९ ॥
पावनं सर्वविजयं परमायुष्यवर्धनम् ।
अभेद्यमतुलं नानाभूतप्रेतनिबर्हणम् ॥ ३० ॥
किमत्र बहुनोक्तेन चतुर्वर्गफलप्रदम् ।
त्रिसन्ध्यं यो जपेन्नित्यं न्यासभावयुतं शिवे ॥ ३१ ॥
तस्य सर्वभयं नास्ति विजय च करस्थले ।
कवचेनाऽऽवृतो विद्वान्स पूज्यः सकलैरपि ।
अनेनैव शरीरेण जीवन्मुक्तो भवेच्छिवे ॥ ३२ ॥
इति श्रीशूलिनीकवचं सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥