॥ श्री गणेशाय नमः ॥
श्रीशिवाष्टकम्
प्रभुं प्राणनाथं विभुं विश्वनाथं
जगन्नाथनाथं सदानन्दभाजम् ।
भवद्भव्यभूतेश्वरं भूतनाथं शिवं
शङ्करं शम्भुमीशानमीडे ॥ १ ॥
गले रुण्डमालं तनौ सर्पजालं
महाकालकालं गणेशाधिपालम् ।
जटाजूटगङ्गोत्तरङ्गैर्विशालं
शिवं शङ्करं शम्भुमीशानमीडे ॥ २ ॥
मुदामाकरं मण्डनं मण्डयन्तं
महामण्डलं भस्मभूषाधरं तम् ।
अनादिह्यपारं महामोहहारं
शिवं शङ्करं शम्भुमीशानमीडे ॥ ३ ॥
वटाधोनिवासं महाट्टाट्टहासं
महापापनाशं सदासुप्रकाशम् ।
गिरीशं गणेशं महेशं सुरेशं
शिवं शङ्करं शम्भुमीशानमीडे ॥ ४ ॥
गिरिन्द्रात्मजासंग्रहीतार्धदेहं
गिरौ संस्थितं सर्वदा सन्नगेहम् ।
परब्रह्मब्रह्मादिभिर्वन्ध्यमानं
शिवं शङ्करं शम्भुमीशानमीडे ॥ ५ ॥
कपालं त्रिशूलं कराभ्यां दधानं
पदाम्भोजनम्राय कामं ददानम् ।
बलीवर्दयानं सुराणां प्रधानं
शिवं शङ्करं शम्भुमीशानमीडे ॥ ६ ॥
शरच्चन्द्रगात्रं गुणानन्द पात्रं
त्रिनेत्रं पवित्रं धनेशस्य मित्रम् ।
अपर्णाकलत्रं चरित्रं विचित्रं
शिवं शङ्करं शम्भुमीशानमीडे ॥ ७ ॥
हरं सर्पहारं चिता भूविहारं
भवं वेदसारं सदा निर्विकारम् ।
श्मशाने वसन्तं मनोजं दहन्तं
शिवं शङ्करं शम्भुमीशानमीडे ॥ ८ ॥
स्तवं यः प्रभाते नरः शूलपाणे
पठेत्सर्वदा भर्गभावानुरक्तः ।
स पुत्रं धनं धान्यमित्रं कलत्रं
विचित्रं समासाद्य मोक्षं प्रयाति ॥ ९ ॥
इति श्रीशिवाष्टकम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥