॥ श्री गणेशाय नमः ॥
श्रीरुद्रचण्डी कवचम्
पूर्वपीठिका -
श्रीकार्तिकेय उवाच -
कवचं चण्डिकादेव्याः श्रोतुमिच्छामि ते शिव ।
यदि तेऽस्ति कृपा नाथ कथयस्व जगत्प्रभो ॥ १ ॥
श्रीशिव उवाच -
शृणु वत्स प्रवक्ष्यामि चण्डिकाकवचम्शुभम् ।
भुक्तिमुक्तिप्रदातारमायुष्यं सर्वकामदम् ॥ २ ॥
दुर्लभं सर्वदेवानां सर्वपापनिवारणम् ।
मन्त्रसिद्धिकरं पुंसां ज्ञानसिद्धिकरं परम् ॥ ३ ॥
विनियोगः -
श्रीरुद्र चण्डिकाकवचस्य श्रीभैरव ऋषिः
अनुष्टुप्छन्दः श्रीचण्डिका देवता
चतुर्वर्गफलप्राप्त्यर्थं पाठे विनियोगः ॥
ऋष्यादि न्यासः -
श्रीभैरव ऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे ।
श्रीचण्डिकादेवतायै नमः हृदि ।
चतुर्वर्गफलप्राप्त्यर्थं पाठे विनियोगाय नमः सर्वाङ्गे ॥
अथ कवचस्तोत्रम् -
चण्डिका मेऽग्रतः पातु आग्नेय्यां भवसुन्दरी ।
याम्यां पातु महादेवी नैऋत्यां पातु पार्वती ॥ १ ॥
वारुणे चण्डिका पातु चामुण्डा पातु वायवे ।
उत्तरे भैरवी पातु ईशाने पातु शङ्करी ॥ २ ॥
पूर्वे पातु शिवा देवी ऊर्ध्वे पातु महेश्वरी ।
अधः पातु सदाऽनन्ता मूलाधार निवासिनी ॥ ३ ॥
मूर्ध्नि पातु महादेवी ललाटे च महेश्वरी ।
कण्ठे कोटीश्वरी पातु हृदये नलकूबरी ॥ ४ ॥
नाभौ कटिप्रदेशे च पायाल्लम्बोदरी सदा ।
ऊर्वोर्जान्वोः सदा पायात्त्वचं मे मदलालसा ॥ ५ ॥
ऊर्ध्वे पार्श्वे सदा पातु भवानी भक्तवत्सला ।
पादयोः पातु मामीशा सर्वाङ्गे विजया सदा ॥ ६ ॥
रक्त मांसे महामाया त्वचि मां पातु लालसा ।
शुक्रमज्जास्थिसङ्घेषु गुह्यं मे भुवनेश्वरी ॥ ७ ॥
ऊर्ध्वकेशी सदा पायान्नाडी सर्वाङ्गसन्धिषु ।
ॐ ऐं ऐं ह्रीं ह्रीं चामुण्डे स्वाहामन्त्रस्वरूपिणी ॥ ८ ॥
आत्मानं मे सदा पायात्सिद्धविद्या दशाक्षरी ।
इत्येतत्कवचं देव्याश्चण्डिकायाः शुभावहम् ॥ ९ ॥
फलश्रुति -
गोपनीयं प्रयत्नेन कवचं सर्वसिद्धिदम् ।
सर्वरक्षाकरं धन्यं न देयं यस्य कस्यचित् ॥ १० ॥
अज्ञात्वा कवचं देव्या यः पठेत्स्तवमुत्तमम् ।
न तस्य जायते सिद्धिर्बहुधा पठनेन च ॥ ११ ॥
धृत्वैतत्कवचं देव्या दिव्यदेहधरो भवेत् ।
अधिकारी भवेदेतच्चण्डीपाठेन साधकः ॥ १२ ॥
इति श्रीरुद्रयामलतन्त्रे श्रीशिवकार्तिकेयसंवादे
रुद्रचण्डीकवचं सम्पूर्णं शिवं भूयात् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥