॥ श्री गणेशाय नमः ॥
श्रीकृष्णस्तुतिर्मङ्गलम्
नमः परमकल्याण नमस्ते विश्वमङ्गल ।
वासुदेवाय शान्ताय यदूनां पतये नमः ॥ १ ॥
नमोऽस्तु ते महायोगिन्प्रपन्नमनुशाधि माम् ।
यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी ॥ २ ॥
कृष्णाय वासुदेवाय देवकीनन्दनाय च ।
नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥ ३ ॥
नमः पङ्कजनाभाय नमः पङ्कजमालिने ।
नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥ ४ ॥
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥ ५ ॥
राधिकाऽऽलिङ्गिताङ्गाय नमो रासविहारिणे ।
राजीवायतनेत्राय रसिकेशाय ते नमः ॥ ६ ॥
मुग्धगोपवधूत्तुङ्गकुचमण्डलमर्दिने ।
मुरलीगानलोलाय मुकुन्दायास्तु मङ्गलम् ॥ ७ ॥
नित्योत्सवो भवेत्तेषां नित्यश्रीर्नित्यमङ्गलम् ।
येषां हृदिस्थो भगवान्मङ्गलायतनं हरिः ॥ ८ ॥
लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः ।
येषामिन्दीवरश्यामो हृदये सुप्रतिष्ठितः ॥ ९ ॥
नन्दहस्तमवलम्ब्य पाणिना मन्दमन्दमरविन्दलोचनः ।
सञ्चरन्क्वणितकिङ्किणीरवः सन्ततं मम तनोतु मङ्गलम् ॥ १० ॥
इति श्रीकृष्णस्तुतिः मङ्गलं सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥