॥ श्री गणेशाय नमः ॥
श्रीधूमावती ध्यानम्
विवर्णा चञ्चला दुष्टा दीर्घा च मलिनाम्बरा ।
विमुक्तकुन्तला रूक्षा विधवा विरलद्विजा ॥ १ ॥
काकध्वजरथारूढा विलम्बितपयोधरा ।
शूर्पहस्तातिरूक्षाक्षा धूतहस्ता वरान्विता ॥ २ ॥
प्रवृद्धघोणा तु भृशं कुटिला कुटिलेक्षणा ।
क्षुत्पिपासार्दि ता ध्येया भयदा कलहास्पदा ॥ ३ ॥
अत्युच्चा मलिनाम्बराऽखिलजनोद्वेगावहा दुर्मना
रूक्षाक्षित्रितया विशालदशना सूर्योदरी चञ्चला ।
प्रस्वेदाम्बुचिता क्षुधाकुलतनुः कृष्णाऽतिरूक्षप्रभा
ध्येया मुक्तकचा सदाप्रियकलिर्धूमावती मन्त्रिणा ॥ ४ ॥
इति श्रीधूमावती ध्यानम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥