॥ श्री गणेशाय नमः ॥
श्रीभुवनेश्वरी
त्रैलोक्यमोहनकवचम्
श्रीदेव्युवाच -
भगवन्परमेशान सर्वागमविशारद ।
कवचं भुवनेश्वर्याः कथयस्व महेश्वर ॥
श्रीदेवी ने कहा ।
हे सभी आगमों के ज्ञाता भगवन्महेश्वर
भुवनेश्वरी के कवच को बताइये ॥
श्री भैरव उवाच -
शृणु देवि महेशानि कवचं सर्वकामदं ।
त्रैलोक्यमोहनं नाम सर्वेप्सितफलप्रदम् ॥
श्रीभैरव ने कहा ।
हे महेशानि त्रैलोक्यमोहन नामक कवच सभी
कामनाओं की पूर्तिं करनेवाला और सभी
अभीष्ट फलों का देनेवाला है । उसे सुनो ॥
विनियोगः ।
ॐ अस्य श्रीत्रैलोक्यमोहन कवचस्य श्रीसदाशिव ऋषिः
विराट्छन्दः श्रीभुवनेश्वरीदेवता
चतुर्वर्गसिद्ध्यर्थं कवचपाठे विनियोगः ॥
ऋष्यादिन्यासः ।
श्रीसदाशिवऋषये नमः शिरसि । विराट्छन्दसे नमः मुखे ।
श्रीभुवनेश्वरीदेवतायै नमः हृदि ।
चतुर्वर्गसिद्ध्यर्थं कवचपाठे विनियोगाय नमः सर्वाङ्गे ॥
अथ कवचस्तोत्रम् ।
ॐ ह्रीं क्लीं मे शिरः पातु श्रीं फट्पातु ललाटकम् ।
सिद्धपञ्चाक्षरी पायान्नेत्रे मे भुवनेश्वरी ॥ १ ॥
श्रीं क्लीं ह्रीं मे श्रुतीः पातु नमः पातु च नासिकाम् ।
देवी षडक्षरी पातु वदनं मुण्डभूषणा ॥ २ ॥
ॐ ह्रीं श्रीं ऐं गलं पातु जिह्वां पायान्महेश्वरी ।
ऐं स्कन्धौ पातु मे देवी महात्रिभुवनेश्वरी ॥ ३ ॥
ह्रूं घण्टां मे सदा पातु देव्येकाक्षररूपिणी ।
ऐं ह्रीं श्रीं हूं तु फट्पायादीश्वरी मे भुजद्वयम् ॥ ४ ॥
ॐ ह्रीं श्रीं क्लीं ऐं फट्पायाद्भुवनेशी स्तनद्वयम् ।
ह्रां ह्रीं ऐं फट्महामाया देवी च हृदयं मम ॥ ५ ॥
ऐं ह्रीं श्रीं हूं तु फट्पायात्पार्श्वौ कामस्वरूपिणी ।
ॐ ह्रीं क्लीं ऐं नमः पायात्कुक्षिं महाषडक्षरी ॥ ६ ॥
ऐं सौः ऐं ऐं क्लीं फट्स्वाहा कटिदेशे सदाऽवतु ।
अष्टाक्षरी महाविद्या देवेशी भुवनेश्वरी ॥ ७ ॥
ॐ ह्रीं ह्रौं ऐं श्रीं ह्रीं फट्पायान्मे गुह्यस्थलं सदा ।
षडक्षरी महाविद्या साक्षाद्ब्रह्मस्वरूपिणी ॥ ८ ॥
ऐं ह्रां ह्रौं ह्रूं नमो देव्यै देवि सर्वं पदं ततः
दुस्तरं पदं तारय तारय प्रणवद्वयम् ।
स्वाहा इति महाविद्या जानुनि मे सदाऽवतु ॥ ९ ॥
ऐं सौः ॐ ऐं क्लीं फट्स्वाहा जङ्घेऽव्याद्भुवनेश्वरी ।
ॐ ह्रीं श्रीं क्लीं ऐं फट्पायात्पादौ मे भुवनेश्वरी ॥ १० ॥
ॐ ॐ ह्रीं ह्रीं श्रीं श्रीं क्लीं क्लीं ऐं ऐं सौः सौः वद वद ।
वाग्वादिनीति च देवि विद्या या विश्वव्यापिनी ॥ ११ ॥
सौःसौःसौः ऐंऐंऐं क्लीङ्क्लीङ्क्लीं श्रींश्रींश्रीं ह्रींह्रींह्रीं ॐ ।
ॐ ॐ चतुर्दशात्मिका विद्या पायात्बाहू तु मे ॥ १२ ॥
सकलं सर्वभीतिभ्यः शरीरं भुवनेश्वरी ।
ॐ ह्रीं श्रीं इन्द्रदिग्भागे पायान्मे चापराजिता ॥ १३ ॥
स्त्रीं ऐं ह्रीं विजया पायादिन्दुमदग्निदिक्स्थले ।
ॐ श्रीं सौः क्लीं जया पातु याम्यां मां कवचान्वितम् ॥ १४ ॥
ह्रीं ह्रीं ऐं सौः हसौः पायान्नैऋतिर्मां तु परात्मिका ।
ॐ श्रीं श्रीं ह्रीं सदा पायात्पश्चिमे ब्रह्मरूपिणी ॥ १५ ॥
ॐ ह्रां सौः मां भयाद्रक्षेद्वायव्यां मन्त्ररूपिणी ।
ऐं क्लीं श्रीं सौः सदाऽव्यान्मां कौवेर्यां नगनन्दिनी ॥ १६ ॥
ॐ ह्रीं श्रीं क्लीं महादेवी ऐशान्यां पातु नित्यशः ।
ॐ ह्रीं मन्त्रमयी विद्या पायादूर्ध्वं सुरेश्वरी ॥ १७ ॥
ॐ ह्रीं श्रीं क्लीं ऐं मां पायादधस्था भुवनेश्वरी ।
एवं दशदिशो रक्षेत्सर्वमन्त्रमयो शिवा ॥ १८ ॥
प्रभाते पातु चामुण्डा श्रीं क्लीं ऐं सौः स्वरूपिणी ।
मध्याह्नेऽव्यान्मामम्बा श्रीं ह्रीं क्लीं ऐं सौः स्वरूपिणी ॥ १९ ॥
सायं पायादुमादेवी ऐं ह्रीं क्लीं सौः स्वरूपिणी ।
निशादौ पातु रुद्राणी ॐ क्लीं क्रीं सौः स्वरूपिणी ॥ २० ॥
निशीथे पातु ब्रह्माणी क्रीं ह्रूं ह्रीं ह्रीं स्वरूपिणी ।
निशान्ते वैष्णवी पायादोमै ह्रीं क्लीं स्वरूपिणी ॥ २१ ॥
सर्वकाले च मां पायादो ह्रीं श्रीं भुवनेश्वरी ।
एषा विद्या मया गुप्ता तन्त्रेभ्यश्चापि साम्प्रतम् ॥ २२ ॥
फलश्रुतिः ।
देवेशि कथितां तुभ्यं कवचेच्छा त्वयि प्रिये ।
इति ते कथितं देवि गुह्यन्तर परं ।
त्रैलोक्यमोहनं नाम कवचं मन्त्रविग्रहम् ।
ब्रह्मविद्यामयं चैव केवलं ब्रह्मरूपिणम् ॥ १ ॥
मन्त्रविद्यामयं चैव कवचं बन्मुखोदितम् ।
गुरुमभ्यर्च्य विधिवत्कवचं धारयेद्यदि ।
साधको वै यथाध्यानं तत्क्षणाद्भैरवो भवेत् ।
सर्वपापविनिर्मुक्तः कुलकोटि समुद्धरेत् ॥ २ ॥
गुरुः स्यात्सर्वविद्यासु ह्यधिकारो जपादिषु ।
शतमष्टोत्तरं चास्य पुरश्चर्याविधिः स्मृता ।
शतमष्टोत्तरं जप्त्वा तावद्धोमादिकं तथा ।
त्रैलोक्ये विचरेद्वीरो गणनाथो यथा स्वयम् ॥ ३ ॥
गद्यपद्यमयी वाणी भवेद्गङ्गाप्रवाहवत् ।
पुष्पाञ्जल्यष्टकं दत्वा मूलेनैव पठेत्सकृत् ॥ ४ ॥
इति श्रीभुवनेश्वरीत्रैलोक्यमोहनकवचं सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥