॥ श्री गणेशाय नमः ॥
श्रीबगलामुखीहृदयम्
विनियोगः ।
ॐ अस्य श्रीबगलामुखीहृदयस्य नारद ऋषिः । अनुष्टुप्छन्दः ।
श्रीबगलामुखी देवता । ह्लीं बीजम् । क्लीं शक्तिः । ऐं कीलकम् ।
श्रीबगलामुखीप्रसादसिद्ध्यर्थे श्रीबगलामुखीहृदयम्जपे विनियोगः ॥
ऋष्यादिन्यासः ।
ॐ नारदऋषये नमः शिरसि । ॐ अनुष्टुप्छन्दसे नमः मुखे ।
ॐ श्रीबगलामुखी देवतायै नमः हृदये । ॐ ह्लीं बीजाय नमः गुह्ये ।
ॐ क्लीं शक्तयेनमः पादयोः । ॐ ऐं कीलकाय नमः सर्वाङ्गे ॥
करन्यासः ।
ॐ ह्लीं अङ्गुष्ठाभ्यां नमः । ॐ क्लीं तर्जनीभ्यां नमः ।
ॐ ऐं मध्यमाभ्यां नमः । ॐ ह्लीं अनामिकाभ्यां नमः ।
ॐ क्लीं कनिष्ठिकाभ्यां नमः । ॐ ऐं करतलकरपृष्ठाभ्यां नमः ॥
हृदयादिषडङ्गन्यासः ।
ॐ ह्लीं हृदयाय नमः । ॐ क्लीं शिरसे स्वाहा ।
ॐ ऐं शिखायै वषट् । ॐ ह्लीं कवचाय हुम् ।
ॐ क्लीं नेत्रत्रयाय वौषट् । ॐ ऐं अस्त्राय फट् ।
ॐ ह्लीं क्लीं ऐं इति दिग्बन्धः ॥
ध्यात्वा सम्पूज्य ।
पीताम्बरां पीतमाल्यां पीताभरणभूषिताम् ।
पीतकञ्जपदद्वन्द्वां बगलां चिन्तयेऽनिशम् ॥
सम्प्रार्त्थ्य ।
पीतशङ्खगदाहस्ते पीतचन्दनचर्चिते ।
बगले मे वरं देहि शत्रुसङ्घविदारिणी ॥
मन्त्रं जपित्वा पुनः ।
ॐ ह्लीं क्लीं ऐं बगलामुख्यै गदाधारिण्यै प्रेतासनाध्यासिन्यै स्वाहा ॥
(इति मन्त्रं जपित्वा पुनः पूर्ववद्धृदयादि षडङ्गन्यासङ्कृत्वा स्तोत्रम्पठेत् ।
इस मन्त्रका जप ११ २१ ५१ या १०८ बार करें और पुनः न्यास करें ॥ ,
अथ करन्यासः ।
ॐ ह्लीं अङ्गुष्ठाभ्यां नमः । ॐ क्लीं तर्जनीभ्यां नमः ।
ॐ ऐं मध्यमाभ्यां नमः । ॐ ह्लीं अनामिकाभ्यां नमः ।
ॐ क्लीं कनिष्ठिकाभ्यां नमः । ॐ ऐं करतल करपृष्ठाभ्यां नमः ॥
अथ हृदयादिषडङ्गन्यासः ।
ॐ ह्लीं हृदयाय नमः । ॐ क्लीं शिरसे स्वाहा ।
ॐ ऐं शिखायै वषट् । ॐ ह्लीं कवचाय हुम् ।
ॐ क्लीं नेत्रत्रयाय वौषट् । ॐ ऐं अस्त्राय फट् ।
ॐ ह्लीं क्लीं ऐं इति दिग्बन्धः ॥
तद्यथा ।
बन्देऽहं बगलां देवीं पीतभूषणभूषिताम् ।
तेजोरूपमयीं देवीं पीततेजस्स्वरूपिणीम् ॥ १ ॥
गदाभ्रमणाभिन्नाभ्रां भ्रुकुटीभीषणाननाम् ।
भीषयन्तीं भीमशत्रून्भजे भक्तस्य भव्यदाम् ॥ २ ॥
पूर्णचन्द्रसमानास्यां पीतगन्धानुलेपनाम् ।
पीताम्बरपरीधानां पवित्रामाश्रयाम्यहम् ॥ ३ ॥
पालयन्तीमनुपलं प्रसमीक्ष्यावनीतले ।
पीताचाररतां भक्तां स्ताम्भवानीं भजाम्यहम् ॥ ४ ॥
पीतपद्मपदद्वन्द्वां चम्पकारण्यरूपिणीम् ।
पीतावतंसां परमां वन्दे पद्मजवन्दिताम् ॥ ५ ॥
लसच्चारुसिञ्जत्सुमञ्जीरपादां चलत्स्वर्णकर्णावतंसाञ्चितास्याम् ।
वलत्पीतचन्द्राननां चन्द्रवन्द्यां भजे पद्मजादीड्यसत्पादपद्माम् ॥ ६ ॥
सुपीताभयामालया पूतमन्त्रं परं ते जपन्तो जयं सल्लभन्ते ।
रणे रागरोषाप्लुतानां रिपूणां विवादे बलाद्वैरकृद्धातमातः ॥ ७ ॥
भरत्पीतभास्वत्प्रभाहस्कराभां गदागञ्जितामित्रगर्वां गरिष्ठाम् ।
गरीयो गुणागारगात्रां गुणाढ्यां गणेशादिगम्यां श्रये निर्गुणाढ्याम् ॥ ८ ॥
जना ये जपन्त्युग्रबीजं जगत्सु परं प्रत्यहं ते स्मरन्तः स्वरूपम् ।
भवेद्वादिनां वाङ्मुखस्तम्भ आद्ये जयो जायते जल्पतामाशु तेषाम् ॥ ९ ॥
तव ध्याननिष्ठा प्रतिष्ठात्मप्रज्ञावतां पादपद्मार्चने प्रेमयुक्ताः ।
प्रसन्ना नृपाः प्राकृताः पण्डिता वा पुराणादिका दासतुल्या भवन्ति ॥ १० ॥
नमामस्ते मातः कनककमनीयाङ्घ्रिजलजं
बलद्विद्युद्वर्णां घनतिमिरविध्वंसकरणम् ।
भवाब्धौ मग्नात्मोत्तरणकरणं सर्वशरणं
प्रपन्नानां मातर्जगति बगले दुःखदमनम् ॥ ११ ॥
ज्वलज्ज्योत्स्नारत्नाकरमणिविषक्ताङ्कभवनं
स्मरामस्ते धाम स्मरहरहरीन्द्रेन्दुप्रमुखैः ।
अहोरात्रं प्रातः प्रणयनवनीयं सुविशदं
परं पीताकारं परिचितमणिद्वीपवसनम् ॥ १२ ॥
वदामस्ते मातः श्रुतिसुखकरं नाम ललितं
लसन्मात्रावर्णं जगति बगलेति प्रचरितम् ।
चलन्तस्तिष्ठन्तो वयमुपविशन्तोऽपि शयने
भजामो यच्छ्रेयो दिवि दुरवलभ्यं दिविषदाम् ॥ १३ ॥
पदार्चायां प्रीतिः प्रतिदिनमपूर्वा प्रभवतु
यथा ते प्रासन्न्यं प्रतिपलमपेक्ष्यं प्रणमताम् ।
अनल्पं तन्मातर्भवति भृतभक्त्या भवतु नो
दिशातः सद्भक्तिं भुवि भगवतां भूरि भवदाम् ॥ १४ ॥
मम सकलरिपूणां वाङ्मुखे स्तम्भयाशु
भगवति रिपुजिह्वां कीलय प्रस्थतुल्याम् ।
व्यवसितखलबुद्धिं नाशयाशु प्रगल्भां
मम कुरु बहुकार्यं सत्कृपेऽम्ब प्रसीद ॥ १५ ॥
व्रजतु मम रिपूणां सद्मनि प्रेतसंस्था
करधृतगदया तान्घातयित्वाशु रोषात् ।
सधनवसनधान्यं सद्म तेषां प्रदह्य
पुनरपि बगला स्वस्थानमायातु शीघ्रम् ॥ १६ ॥
करधृतरिपु जिह्वापीडन व्यग्रहस्तां
पुनरपि गदया तांस्ताडयन्तीं सुतन्त्राम् ।
प्रणतसुरगणानां पालिकां पीतवस्त्रां
बहुबलबगलान्तां पीतवस्त्रां नमामः ॥ १७ ॥
हृदयवचनकायैः कुर्वतां भक्तिपुञ्जं
प्रकटित करुणार्द्रां प्रीणतीजल्पतीति ।
धनमथ बहुधान्यं पुत्रपौत्रादिवृद्धिः
सकलमपि किमेभ्यो देयमेवं त्ववश्यम् ॥ १८ ॥
तव चरणसरोजं सर्वदा सेव्यमानं
द्रुहिणहरिहराद्यैर्देववृन्दैः शरण्यम् ।
मृदुलमपि शरणं ते शर्मदं सूरिसेव्यं
वयमिह करवामो मातरेतद्विधेयम् ॥ १९ ॥
बगलाहृदयस्तोत्रमिदं भक्तिसमन्वितः ।
पठेद्यो बगला तस्य प्रसन्ना पाठतो भवेत् ॥ २० ॥
पीताध्यानपरो भक्तो यः शृणोत्यविकल्पतः ।
निष्कल्मषो भवेन्मर्त्त्यो मृतो मोक्षमवाप्नुयात् ॥ २१ ॥
आश्विनस्य सिते पक्षे महाष्टम्यां दिवानिशम् ।
यस्त्विदं पठते प्रेम्णा बगलाप्रीतिमेति सः ॥ २२ ॥
देव्यालये पठन्मर्त्त्यो बगलां ध्यायतीश्वरीम् ।
पीतवस्त्रावृतो यस्तु तस्य नश्यन्ति शत्रवः ॥ २३ ॥
पीताचाररतो नित्यं पीतभूषां विचिन्तयन् ।
बगलायाः पठेन्नित्यं हृदयस्तोत्रमुत्तमम् ॥ २४ ॥
न किञ्चिद्दुर्ल्लभं तस्य दृश्यते जगतीतले ।
शत्रवो ग्लानिमायान्ति तस्य दर्शनमात्रतः ॥ २५ ॥
इति सिद्धेश्वरतन्त्रे उत्तरखण्डे बगलापटले
श्रीबगलाहृदयस्तोत्रं समाप्तम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥