॥ श्री गणेशाय नमः ॥
श्री भुवनेश्वरी अष्टकम्
भुवनेश्वरीं नमस्यामो भक्तकल्पद्रुमां सदा ।
वरदां कामदां शान्तां कृष्णातीरनिवासिनीम् ॥ १ ॥
सर्वसिद्धिप्रदे देवि भुक्तिमुक्तिप्रदे शुभे ।
भुवनेश्वरी महाकालि मनोभीष्ट प्रदायिनी ॥ २ ॥
सर्वाभयप्रदे देवि सर्वदुष्टविनाशिनि ।
भुवनेश्वरी महाकालि मनोभीष्ट प्रदायिनी ॥ ३ ॥
सर्व क्लेशहरे देवि (श्री) महाविष्णुस्वरूपिणी ।
भुवनेश्वरी महाकालि मनोभीष्ट प्रदायिनी ॥ ४ ॥
अन्तर्यामिस्वरूपेण स्थिते सर्वत्र सर्वगे ।
भुवनेश्वरी महाकालि मनोभीष्ट प्रदायिनी ॥ ५ ॥
भवनाश करे देवि भवभेषजदायिनी ।
भुवनेश्वरी महाकालि मनोभीष्ट प्रदायिनी ॥ ६ ॥
अविद्यापटलध्वंसि महानन्देऽभयप्रदे ।
भुवनेश्वरी महाकालि मनोभीष्ट प्रदायिनी ॥ ७ ॥
संसारतरणोपाये निर्जरैरूपसेविते ।
भुवनेश्वरी महाकालि मनोभीष्ट प्रदायिनी ॥ ८ ॥
जय जय अम्बिके सिद्धप्रदे । अभिष्टदायिनी मुक्तिप्रदे ।
अभयप्रदे भक्तकामदे । महानन्दे भवानी ।
सर्वव्यापके विष्णुरूपिणी । महाकाली दुःखहारिणी ।
अज्ञानपटलध्वंसकारिणी । देवी मृडानी सर्वगे ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥