ॐ नमः शिवाय शान्ताय पञ्चवक्त्राय शूलिने ।
नन्दिभृङ्गिमहाव्यालगणयुक्ताय शम्भवे ॥ १ ॥
शिवायै हरकान्तायै प्रकृत्यै सृष्टिहेतवे ।
नमस्ते ब्रह्मचारिण्यै जगद्धात्र्यै नमो नमः ॥ २ ॥
संसारभयसन्तापात्पाहि मां सिंहवाहिनि ।
राज्यसौभाग्यसम्पत्तिं देहि मामम्ब पार्वति ॥ ३ ॥
इति शिवशिवास्तुतिः समाप्ता ॥