ॐ शनैश्चरः स्वधाकारी छायाभूः सूर्यनन्दनः ।
मार्तण्डजो यमः सौरिः पङ्गूश्च ग्रहनायकः ॥ १ ॥
ब्रह्मण्योऽक्रूरधर्मज्ञो नीलवर्णोऽञ्जनद्युतिः ।
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ॥ २ ॥
तस्य पीडां नचैवाहं करिष्यामि न संशयः ।
गोचरे जन्मलग्ने च वापस्वन्तर्दशासु च ॥ ३ ॥
इति शनिस्तोत्रम् ॥