॥ श्री गणेशाय नमः ॥
नवदुर्गा स्तुतिः
८) महागौरी - सोमचक्र
श्वेते वृषे समारूढा श्वेताम्बरधरा शुचिः ।
महागौरी शुभं दद्यान्महादेवप्रमोददा ॥
ॐ नमो भगवति महागौरि वृषारूढे श्रीं ह्रीं क्लीं हुं फट्स्वाहा ।
ध्यान ।
वन्दे वाञ्छितकामार्थं चन्द्रार्धकृतशेखराम् ।
सिंहारूढां चतुर्भुजां महागौरीं यशस्वीनीम् ॥
पुर्णेन्दुनिभां गौरीं सोमवक्रस्थिआतां अष्टमदुर्गां त्रिनेत्राम् ।
वराभीतिकरां त्रिशूलडमरूधरां महागौरीं भजेऽहम् ॥
पटाम्बरपरिधानां मृदुहास्यां नानालङ्कारभूषिताम् ।
मञ्जीरहारकेयूरकिङ्किणीरत्नकुण्डलमण्डिताम् ॥
प्रफुल्लवदनां पल्लवाधरां कान्तकपोलां त्रैलोक्यमोहनीम् ।
कमनीयां लावण्यां मृणालां चन्दनगन्धलिप्ताम् ॥
स्तोत्रम् ।
सर्वसङ्कटहन्त्री त्वं धनैश्वर्यप्रदायनी ।
ज्ञानदा चतुर्वेदमयी महागौरीं प्रणमाम्यहम् ॥
सुखशान्तिदात्रीं धनधान्यप्रदायनीम् ।
डमरूवादनप्रियां महागौरीं प्रणमाम्यहम् ॥
त्रैलोक्यमङ्गला त्वं हि तापत्रयविनाशिनीं प्रणमाम्यहम् ।
वरदा चैतन्यमयी महागौरीं प्रणमाम्यहम् ॥
कवचम् ।
ओङ्कारः पातु शीर्षे मां ह्रीं बीजं मां हृदये ।
क्लीं बीजं सदा पातु नभो गृहो च पादयोः ॥
ललाटकर्णौ हूं बीजं पातु महागौरी मां नेत्रघ्राणौ ।
कपोलचिबुकौ फट्पातु स्वाहा मां सर्ववदनौ ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥