॥ श्री गणेशाय नमः ॥
नवदुर्गा स्तुतिः
२) ब्रह्मचारिणी - स्वाधिष्ठानचक्र
दधाना करपद्माभ्यामक्षमालाकमण्डलू ।
देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा ॥
ध्यानम् ।
वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम् ।
जपमालाकमण्डलुधरां ब्रह्मचारिणीं शुभाम् ।
गौरवर्णां स्वाधिष्ठानस्थितां द्वितीयदुर्गां त्रिनेत्राम् ।
धवलवर्णां ब्रह्मरूपां पुष्पालङ्कारभूषिताम् ।
पद्मवदनां पल्लवाधरां कान्तङ्कपोलां पीनपयोधराम् ।
कमनीयां लावण्यां स्मेरमुखीं निम्ननाभिं नितम्बनीम् ॥
स्तोत्रम् ।
तपश्चारिणी त्वं हि तापत्रयनिवारिणी ।
ब्रह्मरूपधरां ब्रह्मचारिणीं प्रणमाम्यहम् ॥
नवचक्रभेदिनी त्वं हि नव ऐश्वर्यप्रदायिनी ।
धनदां सुखदां ब्रह्मचारिणीं प्रणमाम्यहम् ॥
शङ्करप्रिया त्वं हि भुक्ति-मुक्तिदायिनी ।
शान्तिदां मानदां ब्रह्मचारिणीं प्रणमाम्यहम् ॥
कवचम् ।
त्रिपुरा मे हृदयं पातु ललाटं पातु शङ्करभामिनी
अर्पणा सदा पातु नेत्रौ अधरौ च कपोलौ ॥
पञ्चदशी कण्ठं पातु मध्यदेशं पातु माहेश्वरी
षोडशी सदा पातु नभो गृहो च पादयो ।
अङ्गप्रत्यङ्गं सततं पातु ब्रह्मचारिणी ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥