॥ श्री गणेशाय नमः ॥
नवदुर्गा स्तुतिः
१) शैलपुत्री - मूलाधारचक्र
ध्यानम् ।
वन्दे वाञ्च्छितलाभाय चन्द्रार्धकृतशेखराम् ।
वृषारूढां शूलधरां शैलपुत्रीं यशस्विनीम् ॥
पूर्णेन्दुनिभाङ्गौरीं मूलाधारस्थितां प्रथमदुर्गां त्रिनेत्राम् ।
पटाम्बरपरिधानां रत्नकिरीटां नानालङ्कारभूषिताम् ॥
प्रफुल्लवदनां पल्लवाधरां कान्तकपोलां तुङ्गकुचाम् ।
कमनीयां लावण्यस्नेहमुखीं क्षीणमध्यां नितम्बनीम् ॥
स्तोत्रम् ।
प्रथमदुर्गा त्वं हि भवसागरतारिणी ।
धन ऐश्वर्यदायिनी शैलपुत्री प्रणमाम्यहम् ॥
त्रिलोकजननी त्वं हि परमानन्दप्रदायिनी ।
सौभाग्यारोग्यदायनी शैलपुत्री प्रणमाम्यहम् ॥
चराचरेश्वरी त्वं हि महामोहविनाशिनी ।
भुक्तिमुक्तिदायनी शैलपुत्री प्रणमाम्यहम् ॥
कवचम् ।
ओङ्कारः मे शिरः पातु मूलाधारनिवासिनी ।
ह्रीङ्कारः पातु ललाटे बीजरूपा महेश्वरी ॥
श्रीकारः पातु वदने लज्जारूपा महेश्वरी ।
हूङ्कारः पातु हृदये तारिणी शक्तिः स्वधृता ॥
फट्कारः पातु सर्वाङ्गे सर्वसिद्धिफलप्रदा ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥