Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

के­तु­स्तो­त्रं
श्री­प­र­मे­श्व­र­कृ­त­म्


ॐ धू­म्रा द्वि­बा­ह­वः स­र्वे गो­दा­नो वि­कृ­ता­न­नाः ।
गृ­ध्र­या­ना­स­न­स्था­श्च पा­न्तु नः शि­खि­न­न्द­नाः ॥ १ ॥

श्री­भै­र­व्यु­वा­च -
ध­न्या चा­नु­गृ­ही­ता­स्मि कृ­ता­र्था­स्मि ज­ग­त्प्र­भो ।
य­च्छ्रु­तं त्व­न्मु­खा­द्दे­व के­तु­स्तो­त्र­मि­दं शु­भ­म् ॥ २ ॥

श्री­प­र­मे­श्व­र उ­वा­च -
शृ­णु दे­वि प्र­व­क्ष्या­मि के­तु­स्त­व­मि­मं प­र­म् ।
स­र्व­पा­प­वि­शु­द्धा­त्मा स रो­गै­र्मु­च्य­ते धु­व­म् ॥ ३ ॥

श्वे­त­पी­ता­रु­णः कृ­ष्णः क्व­चि­च्चा­मी­क­र­प्र­भः
शि­वा­र्च­न­र­तः के­तु­र्ग्र­ह­पी­डां व्य­पो­ह­तु ॥ ४ ॥

न­मो घो­रा­या­घो­रा­य म­हा­घो­र­स्व­रू­पि­णे ।
आ­न­न्दे­शा­य दे­वा­य ज­ग­दा­न­न्द­दा­यि­ने ॥ ५ ॥

न­मो भ­क्त­ज­ना­न­न्द­दा­यि­ने वि­श्व­भा­वि­ने ।
वि­श्वे­शा­य म­हे­शा­य के­तु­रू­पा­य वै न­मः ॥ ६ ॥

न­मो रु­द्रा­य स­र्वा­य व­र­दा­य चि­दा­त्म­ने ।
त्र्य­क्षा­य त्रि­नि­वा­सा­य न­मः स­ङ्क­ट­ना­शि­ने ॥ ७ ॥

त्रि­पु­रे­शा­य दे­वा­य भै­र­वा­य म­हा­त्म­ने ।
अ­चि­न्त्या­य चि­ति­ज्ञा­य न­म­श्चै­त­न्य­रू­पि­णे ॥ ८ ॥

न­मः श­र्वा­य च­र्च्या­य द­र्श­नी­या­य ते न­मः ।
आ­प­दु­द्ध­र­णा­या­पि भै­र­वा­य न­मो न­मः ॥ ९ ॥

न­मो न­मो म­हा­दे­व व्या­पि­ने प­र­मा­त्म­ने ।
न­मो ल­घु­म­ते तु­भ्यं ग्रा­हि­णे सू­र्य­सो­म­योः ॥ १० ॥

न­म­श्चा­प­द्वि­ना­शा­य भू­यो भू­यो न­मो न­मः ।
न­म­स्ते रु­द्र­रू­पा­य चो­ग्र­रू­पा­य के­त­वे ॥ ११ ॥

न­म­स्ते सौ­र­रू­पा­य श­त्रु­क्ष­य­क­रा­य च ।
म­हा­ते­जा­य वै तु­भ्यं पू­जा­फ­ल­वि­व­र्धि­ने ॥ १२ ॥

व­ह्नि­पु­त्रा­य ते दि­व्य­रू­पि­णे प्रि­य­का­रि­णे ।
स­र्व­भ­क्ष्या­य स­र्वा­य स­र्व­ग्र­हा­न्त­का­य ते ॥ १३ ॥

न­मः पु­च्छ­स्व­रू­पा­य म­हा­मृ­त्यु­क­रा­य च ।
न­म­स्ते स­र्व­दा क्षो­भ­का­रि­णे व्यो­म­चा­रि­णे ॥ १४ ॥

न­म­स्ते चि­त्र­रू­पा­य मी­न­दा­न­प्रि­या­य च ।
दै­त्य­दा­न­व­ग­ध­र्व­व­न्द्या­य म­ह­ते न­मः ॥ १५ ॥

य इ­दं प­ठ­ते नि­त्यं प्रा­त­रु­त्था­य मा­न­वः ।
ग्र­ह­शा­न्ति­र्भ­वे­त्त­स्य के­तु­रा­ज­स्य की­र्त­ना­त् ॥ १६ ॥

यः प­ठे­द­र्ध­रा­त्रे तु व­शं त­स्य ज­ग­त्त्र­य­म् ।
इ­दं र­ह­स्य­म­खि­लं के­तु­स्तो­त्रं तु की­र्ति­त­म् ॥ १७ ॥

स­र्व­सि­द्धि­प्र­दं गु­ह्य­मा­यु­रा­रो­ग्य­व­र्ध­न­म् ।
गु­ह्यं म­न्त्रं र­ह­स्यं तु त­व भ­क्त्या प्र­का­शि­त­म् ॥ १८ ॥

अ­भ­क्ता­य न दा­त­व्य­मि­त्या­ज्ञा पा­र­मे­श्व­रि ॥ १९ ॥

श्री­दे­व्यु­वा­च -
भ­ग­व­न्भ­व­ता­ने­न के­तु­स्तो­त्र­स्य मे प्र­भो ।
क­थ­ने­न म­हे­शा­न स­त्यं क्री­ता­स्म्य­हं त्व­या ॥ २० ॥

श्री ई­श्व­र उ­वा­च -
इ­दं र­ह­स्यं प­र­मं न दे­यं य­स्य क­स्य­चि­त् ।
गु­ह्यं गो­प्य­त­मं चे­यं गो­प­नी­यं स्व­यो­नि­व­त् ॥ २१ ॥

अ­ग्नि­पु­त्रो म­हा­ते­जाः के­तुः स­र्व­ग्र­हा­न्त­कः ।
क्षो­भ­य­न्यः प्र­जाः स­र्वाः स के­तुः प्री­य­तां म­म ॥ २२ ॥

इ­ति के­तु­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥