॥ श्री गणेशाय नमः ॥
केतुपञ्चविंशतिनामस्तोत्रम्
केतुः कालः कलयिता धूम्रकेतुर्विवर्णकः ।
लोककेतुर्महाकेतुः सर्वकेतुर्भयप्रदः ॥ १ ॥
रौद्रो रुद्रप्रियो रुद्रः क्रूरकर्मा सुगन्धधृक् ।
पलाशधूमसंकाशश्चित्रयज्ञोपवीतधृक् ॥ २ ॥
तारागणविमर्दी च जैमिनेयो ग्रहाधिपः ।
गणेशदेवो विघ्नेशो विषरोगार्तिनाशनः ॥ ३ ॥
प्रव्रज्यादो ज्ञानदश्च तीर्थयात्राप्रवर्तकः ।
पञ्चविंशतिनामानि केतोर्यः सततं पठेत् ॥ ४ ॥
तस्य नश्यति बाधा च सर्वकेतुप्रसादतः ।
धनधान्यपशूनां च भवेद्वृद्धिर्न संशयः ॥ ५ ॥
इति श्रीस्कन्दपुराणे केतुपञ्चविंशतिनामस्तोत्रमं संपूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥