Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

कै­व­ल्या­ष्ट­क­म्
अ­थ­वा के­व­ला­ष्ट­क­म्


म­धु­रं म­धु­रे­भ्यो­ऽपि म­ङ्ग­ले­भ्यो­पि म­ङ्ग­ल­म् ।
पा­व­नं पा­व­ने­भ्यो­ऽपि ह­रे­र्ना­मै­व के­व­ल­म् ॥ १ ॥

आ­ब्र­ह्म­स्त­म्ब­प­र्य­न्तं स­र्वं मा­या­म­यं ज­ग­त् ।
स­त्यं स­त्यं पु­नः स­त्यं ह­रे­र्ना­मै­व के­व­ल­म् ॥ २ ॥

स गु­रुः स पि­ता चा­पि सा मा­ता बा­न्ध­वो­ऽपि सः ।
शि­क्ष­ये­च्चे­त्स­दा स्म­र्तुं ह­रे­र्ना­मै­व के­व­ल­म् ॥ ३ ॥

निः­श्र्वा­से न हि वि­श्र्वा­सः क­दा रु­द्धो भ­वि­ष्य­ति ।
की­र्त­नी­य­म­तो बा­ल्या­द्ध­रे­र्ना­मै­व के­व­ल­म् ॥ ४ ॥

ह­रिः स­दा व­से­त्त­त्र य­त्र भ­ग­व­ता ज­नाः ।
गा­य­न्ति भ­क्ति­भा­वे­न ह­रे­र्ना­मै­व के­व­ल­म् ॥ ५ ॥

अ­हो दुः­खं म­हा­दुः­खं दुः­ख­द्दुः­ख­त­रं य­तः ।
का­चा­र्थं वि­स्मृ­तं र­त्नं ह­रे­र्ना­मै­व के­व­ल­म् ॥ ६ ॥

दी­य­तां दी­य­तां क­र्णो नी­य­तां नी­य­तां व­चः ।
गी­य­तां गी­य­तां नि­त्यं ह­रे­र्ना­मै­व के­व­ल­म् ॥ ७ ॥

तृ­णी­कृ­त्य ज­ग­त्स­र्वं रा­ज­ते स­क­लो­प­रि ।
चि­दा­न­न्द­म­यं शु­द्धं ह­रे­र्ना­मै­व के­व­ल­म् ॥ ८ ॥

इ­ति कै­व­ल्या­ष्ट­क­म्अ­थ­वा के­व­ला­ष्ट­कं स­म्पू­र्ण­म् ॥

श्री­कृ­ष्णा­र्प­ण­म­स्तु ॥

इ­ति नी­ल­क­ण्ठ­गो­स्वा­मी वि­र­चि­तं के­व­ला­ष्ट­कं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥