॥ श्री गणेशाय नमः ॥
कालीकवचम्
अथवा श्यामाकवचम्
अथवा जगन्मङ्गलकवचम्
भैरव्युवाच -
कालीपूजा श्रुता नाथ भावाश्च विविधाः प्रभो ।
इदानीं श्रोतुमिच्छामि कवचं पूर्वसूचितम् ॥ १ ॥
त्वमेव स्रष्टा पाता च संहर्ता च त्वमेव हि ।
त्वमेव शरणन्नाथ त्राहिमां दुःखसङ्कटात् ॥ २ ॥
भैरव उवाच -
रहस्यं शृणु वक्ष्यामि भैरवि प्राणवल्लभे ।
श्रीजगन्मङ्गलन्नाम कवचं मन्त्रविग्रहम् ॥ ३ ॥
पठित्वा धारयित्वा च त्रैलोक्यं मोहयेत्क्षणात् ।
नारायणोऽपि यद्धृत्वा नारी भूत्वा महेश्वरम् ॥ ४ ॥
योगिनङ्क्षोभमनयद्यद्धृत्वा च रघूत्तमः ।
वरतृप्तो जघानैव रावणादिनिशाचरान् ॥ ५ ॥
यस्य प्रसादादीशोऽहं त्रैलोक्यविजयी विभुः ।
धनाधिपः कुबेरोपि सुरेशोऽभूच्छचीपतिः ॥ ६ ॥
एवं हि सकला देवास्सर्वसिद्धीश्वराः प्रिये ।
श्रीजगन्मङ्गलस्यास्य कवचस्य ऋषिः शिवः ॥ ७ ॥
छन्दोऽनुष्टुप्देवता च कालिका दक्षिणेरिता ।
जगतां मोहने दुष्टविजये भुक्तिमुक्तिषु ॥ ८ ॥
योषिदाकर्षणे चैव विनियोगः प्रकीर्तितः ।
शिरो मे कालिका पातु क्रीङ्कारैकाक्षरी परा ॥ ९ ॥
क्रीङ्क्रीङ्क्रीं मे ललाटञ्च कालिका खड्गधारिणी ।
हूं हूं पातु नेत्रयुगं ह्रीं ह्रीं पातु श्रुती मम ॥ १० ॥
दक्षिणे कालिका पातु घ्राणयुग्मं महेश्वरी ।
क्रीङ्क्रीङ्क्रीं रसनाम्पातु हूं हूं पातु कपोलकम् ॥ ११ ॥
वदनं सकलम्पातु ह्रीँ ह्रीँ स्वाहास्वरूपिणी ।
द्वाविंशत्यक्षरी स्कन्धौ महाविद्या सुखप्रदा ॥ १२ ॥
खड्गमुण्डधरा काली सर्वाङ्गमभितोऽवतु ।
क्रींह्रूँह्रीँ त्र्यक्षरी पातु चामुण्डा हृदयं मम ॥ १३ ॥
ऐंहूँओंऐं स्तनद्वन्द्वं ह्रीम्फट्स्वाहा ककुत्स्थलम् ।
अष्टाक्षरी महाविद्या भुजौ पातु सकर्तृका ॥ १४ ॥
क्रीङ्क्रींहूंहूंह्रींह्रीङ्कारी पातु षडक्षरी मम ।
क्रीं नाभिं मध्यदेशञ्च दक्षिणे कालिकाऽवतु ॥ १५ ॥
क्रींस्वाहा पातु पृष्ठञ्च कालिका सा दशाक्षरी ।
क्रीं मे गुह्यं सदा पातु कालिकायै नमस्ततः ॥ १६ ॥
सप्ताक्षरी महाविद्या सर्वतन्त्रेषु गोपिता ।
ह्रींह्रीं दक्षिणे कालिके हूंहूं पातु कटिद्वयम् ॥ १७ ॥
काली दशाक्षरी विद्या स्वाहा मामूरुयुग्मकम् ।
ॐ क्रीङ्क्रीं मे स्वाहा पातु कालिका जानुनी सदा ॥ १८ ॥
कालीहृन्नामविद्येयञ्चतुर्वर्गफलप्रदा ।
क्रींह्रींह्रीं पातु सा गुल्फन्दक्षिणे कालिकाऽवतु ॥ १९ ॥
क्रींह्रूंह्रीं स्वाहा पदम्पातु चतुर्द्दशाक्षरी मम ।
खड्गमुण्डधरा काली वरदाभयधारिणी ॥ २० ॥
विद्याभिस्सकलाभिः सा सर्वाङ्गमभितोऽवतु ।
काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी ॥ २१ ॥
विप्रचित्ता तथोग्रोग्रप्रभा दीप्ता घनत्विषा ।
नीला घना वलाका च मात्रा मुद्रा मिता च माम् ॥ २२ ॥
एतास्सर्वाः खड्गधरा मुण्डमालाविभूषणाः ।
रक्षन्तु दिग्विदिक्षु मां ब्राह्मी नारायणी तथा ॥ २३ ॥
माहेश्वरी च चामुण्डा कौमारी चापराजिता ।
वाराही नारसिम्ही च सर्वाश्चामितभूषणाः ॥ २४ ॥
रक्षन्तु स्वायुधैर्दिक्षु विदिक्षु मां यथा तथा ।
इति ते कथितं दिव्यं कवचं परमाद्भुतम् ॥ २५ ॥
श्रीजगन्मङ्गलन्नाम महाविद्यौघविग्रहम् ।
त्रैलोक्याकर्षणं ब्रह्मन्कवचं मन्मुखोदितम् ॥ २६ ॥
गुरुपूजाँ विधायाथ विधिवत्प्रपठेत्ततः ।
कवचन्त्रिस्सकृद्वापि यावज्जीवञ्च वा पुनः ॥ २७ ॥
एतच्छतार्द्धमावृत्य त्रैलोक्यविजयी भवेत् ।
त्रैलोक्यङ्क्षोभयत्येव कवचस्य प्रसादतः ॥ २८ ॥
महाकविर्भवेन्मासं सर्वसिद्धीश्वरो भवेत् ।
पुष्पाञ्जलीन्कालिकायै मूलेनैवार्पयेत्सकृत् ॥ २९ ॥
शतवर्षसहस्राणां पूजायाः फलमाप्नुयात् ।
भूर्जे विलिखितञ्चैतत्स्वर्णस्थन्धारयेद्यदि ॥ ३० ॥
विशाखायां दक्षबाहौ कण्ठे वा धारयेद्यदि ।
त्रैलोक्यं मोहयेत्क्रोधात्त्रैलोक्यञ्चूर्णयेत्क्षणात् ॥ ३१ ॥
पुत्रवान्धनवाञ्श्रीमान्नानाविद्यानिधिर्भवेत् ।
ब्रह्मास्त्रादीनि शस्त्राणि तद्गात्रस्पर्शनात्ततः ॥ ३२ ॥
नाशमायाति या नारी वन्ध्या वा मृतपुत्रिनी ।
बह्वपत्या जीवतोका भवत्येव न संशयः ॥ ३३ ॥
न देयम्परशिष्येभ्यो ह्यभक्तेभ्यो विशेषतः ।
शिष्येभ्यो भक्तियुक्तेभ्यो ह्यन्यथा मृत्युमाप्नुयात् ॥ ३४ ॥
स्पर्द्धामुद्धूय कमला वाग्देवी मन्दिरे सुखे ।
पौत्रान्तं स्थैर्यमास्थाय निवसत्येव निश्चितम् ॥ ३५ ॥
इदं कवचमज्ञात्वा यो भजेद्(कालि)घोरदक्षिणाम् ।
शतलक्षम्प्रजप्त्वापि तस्य विद्या न सिद्ध्यति ।
सहस्रघातमाप्नोति सोऽचिरान्मृत्युमाप्नुयात् ॥ ३६ ॥
इति कालीकवचं अथवा जगन्मङ्गलकवचम्
अथवा श्यामाकवचम्सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥