Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

दु­र्गा­स्तो­त्रं
श्री­शि­व­कृ­त­म्


र­क्ष र­क्ष म­हा­दे­वि दु­र्गे दु­र्ग­ति­ना­शि­नि ।
मां भ­क्त­म­नु­र­क्तं च श­त्रु­ग्र­स्तं कृ­पा­म­यि ॥ १ ॥

वि­ष्णु­मा­ये म­हा­भा­गे ना­रा­य­णि स­ना­त­नि ।
ब्र­ह्म­स्व­रू­पे प­र­मे नि­त्या­न­न्द­स्व­रू­पि­णी ॥ २ ॥

त्वं च ब्र­ह्मा­दि­दे­वा­ना­म­म्बि­के ज­ग­द­म्बि­के ।
त्वं सा­का­रे च गु­ण­तो नि­रा­का­रे च नि­र्गु­णा­त् ॥ ३ ॥

मा­य­या पु­रु­ष­स्त्वं च मा­य­या प्र­कृ­तिः स्व­य­म् ।
त­योः प­रं ब्र­ह्म प­रं त्वं बि­भ­र्षि स­ना­त­नि ॥ ४ ॥

वे­दा­नां ज­न­नी त्वं च सा­वि­त्री च प­रा­त्प­रा ।
वै­कु­ण्ठे च म­हा­ल­क्ष्मीः स­र्व­स­म्प­त्स्व­रू­पि­णी ॥ ५ ॥

म­र्त्य­ल­क्ष्मी­श्च क्षी­रो­दे का­मि­नी शे­ष­शा­यि­नः ।
स्व­र्गे­षु स्व­र्ग­ल­क्ष्मी­स्त्वं रा­ज­ल­क्ष्मी­श्च भू­त­ले ॥ ६ ॥

ना­गा­दि­ल­क्ष्मीः पा­ता­ले गृ­हे­षु गृ­ह­दे­व­ता ।
स­र्व­स­स्य­स्व­रू­पा त्वं स­र्वै­श्व­र्य­वि­धा­यि­नी ॥ ७ ॥

रा­गा­धि­ष्ठा­तृ­दे­वी त्वं ब्र­ह्म­ण­श्च स­र­स्व­ती ।
प्रा­णा­ना­म­धि­दे­वी त्वं कृ­ष्ण­स्य प­र­मा­त्म­नः ॥ ८ ॥

गो­लो­के च स्व­यं रा­धा श्री­कृ­ष्ण­स्यै­व व­क्ष­सि ।
गो­लो­का­धि­ष्ठा­ता दे­वी वृ­न्दा­व­न­व­ने व­ने ॥ ९ ॥

श्री­रा­स­म­ण्ड­ले र­म्या वृ­न्दा­व­न­वि­नो­दि­नी ।
श­त­शृ­ङ्गा­धि­दे­वी त्वं ना­म्ना चि­त्रा­व­ली­ति च ॥ १० ॥

द­क्ष­क­न्या कु­त्र क­ल्पे कु­त्र­क­ल्पे च शै­ल­जा ।
दे­व­मा­ता दि­ति­स्त्वं च स­र्वा­धा­रा व­सु­न्ध­रा ॥ ११ ॥

त्व­मे­व ग­ङ्गा तु­ल­सी त्वं च स्वा­हा स्व­धा स­ती ।
त्व­दं­शां­शां­श­क­ल­या स­र्व­दे­वा­दि­यो­षि­तः ॥ १२ ॥

स्त्री­रू­पं चा­पि पु­रु­षं दे­वि त्वं च न­पुं­स­क­म् ।
वृ­क्षा­णां वृ­क्ष­रू­पा त्वं सृ­ष्टौ चा­ङ्कु­र­रू­पि­णी ॥ १३ ॥

व­ह्नौ च दा­हि­का श­क्ति­र्ज­ले शै­त्य­स्व­रू­पि­णी ।
सू­र्ये ते­ज­स्व­रू­पा च प्र­भा­रू­पा च स­न्त­त­म् ॥ १४ ॥

ग­न्ध­रू­पा च भू­मौ च आ­का­शे श­ब्द­रू­पि­णी ।
शो­भा­स्व­रू­पा च­न्द्रे च प­द्म­स­ङ्घे च नि­श्चि­त­म् ॥ १५ ॥

सृ­ष्टौ सृ­ष्टि­स्व­रू­पा च पा­ल­ने प­रि­पा­लि­का ।
म­हा­मा­री च सं­हा­रे ज­ले च ज­ल­रू­पि­णी ॥ १६ ॥

क्षु­त्त्वं द­या त्वं नि­द्रा त्वं तृ­ष्णा त्वं बु­द्धि­रू­पि­णी ।
तु­ष्टि­स्त्वं च­पि पु­ष्टि­स्त्वं श्र­द्धा त्वं च क्ष­मा स्व­य­म् ॥ १७ ॥

शा­न्ति­स्त्वं च स्व­यं भ्रा­न्तिः का­न्ति­स्त्वं की­र्ति­रे­व च ।
ल­ज्जा त्वं च त­था मा­या भु­क्ति­मु­क्ति­स्व­रू­पि­णी ॥ १८ ॥

स­र्व­श­क्ति­स्व­रू­पा त्वं स­र्व­स­म्प­त्प्र­दा­यि­नी ।
वे­दे­ऽनि­र्व­च­नी­या त्वं त्वां न जा­ना­ति क­श्च­न ॥ १९ ॥

स­ह­स्र­व­क्त्र­स्त्वां स्तो­तुं न श­क्तः सु­रे­श्व­रि ।
वे­दाः न श­क्ताः को वि­द्वा­न्न च श­क्ता स­र­स्व­ती ॥ २० ॥

स्व­यं वि­धा­ता श­क्तो न न च वि­ष्णुः स­ना­त­नः ।
किं स्तौ­मि प­ञ्च­व­क्त्रे­ण र­ण­त्र­स्तो म­हे­श्व­रि ।
कृ­पां कु­रु म­हा­मा­ये म­म श­त्रु­क्ष­यं कु­रु ॥ २१ ॥

इ­ति दु­र्गा­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥