॥ श्री गणेशाय नमः ॥
दशावतारस्तवःजयदेव
प्रलयपयोधिजले धृतवानसि वेदं ।
विहितवहित्रचरित्रमखेदम् ।
केशव धृतमीनशरीर । जय जगदीश हरे ॥ १ ॥
क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे ।
धरणिधरणकिणचक्रगरिष्ठे ।
केशव धृतकच्छपरूप । जय जगदीश हरे ॥ २ ॥
वसति दशनशिखरे धरणी तव लग्ना ।
शशिनि कलङ्ककलेव निमग्ना ।
केशव धृतसूकररूप । जय जगदीश हरे ॥ ३ ॥
तव करकमलवरे नखमद्भुतशृङ्गं ।
दलित हिरण्यकशिपुतनुभृङ्गम् ।
केशव धृतनरहरिरूप । जय जगदीश हरे ॥ ४ ॥
छलयसि विक्रमणे बलिमद्भुतवामन ।
पदनखनीरजनितजनपावन ।
केशव धृतवामनरूप । जय जगदीश हरे ॥ ५ ॥
क्षत्रियरुधिरमये जगदपगतपापं ।
स्नपयसि पयसि शमितभवतापम् ।
केशव धृतभृगुपतिरूप । जय जगदीश हरे ॥ ६ ॥
वितरसि दिक्षु रणे दिक्पतिकमनीयं ।
दशमुखमौलिबलिं रमणीयम् ।
केशव धृतरामशरीर । जय जगदीश हरे ॥ ७ ॥
वहसि विपुषि विशदे वसनं जलदाभं ।
हलहतिभीतिमिलितयमुनाभम् ।
केशव धृतहलधररूप । जय जगदीश हरे ॥ ८ ॥
निन्दसि यज्ञविधेरहह श्रुतिजातं ।
सदयहृदयदर्शितपशुघातम् ।
केशव धृतबुद्धशरीर । जय जगदीश हरे ॥ ९ ॥
म्लेच्छनिवहनिधने कलयसि करवालं ।
धूमकेतुमिव कमपि करालम् ।
केशव धृतकल्किशरीर । जय जगदीश हरे ॥ १० ॥
श्रीजयदेवकवेरिदमुदितमुदारं ।
शृणु सुखदं शुभदं भवसारम् ।
केशव धृतदशविधरूप । जय जगदीश हरे ॥ ११ ॥
वेदानुद्धरते जगन्निवहते भूगोलमुद्बिभ्रते
दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते ।
पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते
म्लेच्छान्मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥ १२ ॥
इति जयदेवकविकृतः दशावतारस्तवः सम्पूर्णः ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥