॥ श्री गणेशाय नमः ॥
सिद्धशारदास्तुतिः
सरस्वतीं शारदां च कौमारीं ब्रह्मचारिणीम् ।
वागीश्वरीं बुद्धिदात्रीं भारतीं भुवनेश्वरीम् ॥ १ ॥
चन्द्रघण्टां मरालस्थां जगन्मातरमुत्तमाम् ।
वरदायिनीं सदा वन्दे चतुर्वर्गफलप्रदाम् ॥ २ ॥
द्वादशैतानि नामानि सततं ध्यानसंयुतः ।
यः पठेत्तस्य जिह्वाग्रे नूनं वसति शारदा ॥ ३ ॥
इति श्री द्विजेन्द्र कविकृता सिद्धशारदास्तुतिः समाप्ता ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥