Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­वि­द्या­क­व­च­म्
अ­थ­वा श्री­षो­ड­शी­वि­द्या­क­व­च­म्


दे­व्यु­वा­च - दे­व­दे­व म­हा­दे­व भ­क्ता­नां प्री­ति­व­र्ध­न­म् । सू­चि­तं य­न्म­हा­दे­व्याः क­व­चं क­थ­य­स्व मे ॥ १ ॥ म­हा­दे­व उ­वा­च - श्रु­णु दे­वि प्र­व­क्ष्या­मि क­व­चं दे­व­दु­र्ल­भ­म् । न प्र­का­श्यं प­रं गु­ह्यं सा­ध­का­भी­ष्ट­सि­द्धि­द­म् ॥ २ ॥ क­व­च­स्य ऋ­षि­र्दे­वि द­क्षि­णा­मू­र्ति­र­व्य­यः । छ­न्दः प­ङ्क्तिः स­मु­द्दि­ष्टं दे­वी त्रि­पु­र­सु­न्द­री ॥ ३ ॥ ध­र्मा­र्थ­का­म­मो­क्षा­णां वि­नि­यो­ग­स्तु सा­ध­ने । वा­ग्भ­वः का­म­रा­ज­श्च श­क्ति­र्बी­जं सु­रे­श्व­रि ॥ ४ ॥ ऐं वा­ग्भ­वः पा­तु शी­र्षे मां क्लीं का­म­रा­ज­स्त­था हृ­दि । सौः श­क्ति­बी­जं स­दा पा­तु ना­भौ गु­ह्ये च पा­द­योः ॥ ५ ॥ ऐं श्रीं सौः व­द­ने पा­तु बा­ला मां स­र्व­सि­द्ध­ये । ह्सौं ह­स­क­ल­ह्रीं ह्सौः पा­तु भै­र­वी क­ण्ठ­दे­श­तः ॥ ६ ॥ सु­न्द­री ना­भि­दे­शे च शी­र्षे का­म­क­ला स­दा । भ्रू­ना­स­यो­र­न्त­रा­ले म­हा­त्रि­पु­र­सु­न्द­री ॥ ७ ॥ ल­ला­टे सु­भ­गा पा­तु भ­गा मां क­ण्ठ­दे­श­तः । भ­गो­द­या च हृ­द­ये उ­द­रे भ­ग­स­र्पि­णी ॥ ८ ॥ भ­ग­मा­ला ना­भि­दे­शे लि­ङ्गे पा­तु म­नो­भ­वा । गु­ह्ये पा­तु म­हा­दे­वी रा­ज­रा­जे­श्व­री शि­वा ॥ ९ ॥ चै­त­न्य­रू­पि­णी पा­तु पा­द­यो­र्ज­ग­द­म्बि­का । ना­रा­य­णी स­र्व­गा­त्रे स­र्व­का­र्ये शु­भ­ङ्क­री ॥ १० ॥ ब्र­ह्मा­णी पा­तु मां पू­र्वे द­क्षि­णे वै­ष्ण­वी त­था । प­श्चि­मे पा­तु वा­रा­ही उ­त्त­रे तु म­हे­श्व­री ॥ ११ ॥ आ­ग्ने­यां पा­तु कौ­मा­री म­हा­ल­क्ष्मी­स्तु नै­रृ­ते । वा­य­व्यां पा­तु चा­मु­ण्डा इ­न्द्रा­णी पा­तु ई­श­के ॥ १२ ॥ ज­ले पा­तु म­हा­मा­या पृ­थि­व्यां स­र्व­म­ङ्ग­ला । आ­का­शे पा­तु व­र­दा स­र्व­त्र भु­व­ने­श्व­री ॥ १३ ॥ इ­दं तु क­व­चं दे­व्या दे­वा­ना­म­पि दु­र्ल­भ­म् । प­ठे­त्प्रा­तः स­मु­त्था­य शु­चिः प्र­य­त­मा­न­सः ॥ १४ ॥ ना­ध­यो व्या­ध­य­स्त­स्य न भ­यं च क्व­चि­द्भ­वे­त् । न च मा­री भ­यं त­स्य पा­त­का­नां भ­यं त­था ॥ १५ ॥ न दा­रि­द्र्य­व­शं ग­च्छे­त्ति­ष्ठे­न्मृ­त्यु­व­शे न च । ग­च्छे­च्छि­व­पु­रं दे­वि स­त्यं स­त्यं व­दा­म्य­ह­म् ॥ १६ ॥ इ­दं क­व­च­म­ज्ञा­त्वा श्री­वि­द्यां यो ज­पे­त्स­दा । स ना­प्नो­ति फ­लं त­स्य प्रा­प्नु­या­च्छ­स्त्र­घा­त­न­म् ॥ १७ ॥ इ­ति श्री­सि­द्ध­या­म­ले श्री­षो­ड­शी­वि­द्या­क­व­चं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥