॥ श्री गणेशाय नमः ॥
श्रीवाराहीद्वादशनामस्तोत्रम्
अस्य श्रीवाराही द्वादशनामस्तोत्रस्य अश्वानन ऋषिः
अनुष्टुप्छन्दः श्रीवाराही देवता श्रीवाराहि प्रसादसिद्ध्यर्थं
सर्वसङ्कटहरण जपे विनियोगः ॥
पञ्चमी दण्डनाथा च सङ्केता समयेश्वरी ।
तथा समयसङ्केता वाराही पोत्रिणी शिवा ॥ १ ॥
वार्ताली च महासेनाऽऽज्ञाचक्रेश्वरी तथा ।
अरिघ्नी चेति सम्प्रोक्तं नाम द्वादशकं मुने ॥ २ ॥
नाम द्वादशधाभिज्ञ वज्रपञ्जरमध्यगः ।
सङकटे दुःखमाप्नोति न कदाचन मानवः ॥ ३ ॥
इति वाराहीद्वादशनामस्तोत्रं सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥