॥ श्री गणेशाय नमः ॥
श्रीत्रिपुरभैरवीध्यानम्
उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकाम्
रक्तालिप्तपयोधरां जपपटीं विद्यामभीतिं वरम् ।
हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियम्
देवीं बद्धहिमांशुरत्नमकुटां वन्दे समन्दस्मिताम् ॥
इति श्रीत्रिपुरभैरवीध्यानम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥