॥ श्री गणेशाय नमः ॥
श्रीषोडशीहृदयम्
अथवा श्रीललितात्रिपुरसुन्दरीह्रिदयस्तोत्रम्
॥ श्रीउमामहेश्वराभ्यां नमः ॥
अथ श्रीषोडशीहृदयप्रारम्भः ।
कैलासे करुणाक्रान्ता परोपकृतिमानसा ।
पप्रच्छ करुणासिन्धुं सुप्रसन्नं महेश्वरम् ॥ १ ॥
श्रीपार्वत्युवाच -
आगामिनि कलौ ब्रह्मन्धर्मकर्मविवर्जिताः ।
भविष्यन्ति जनास्तेषां कथं श्रेयो भविष्यति ॥ २ ॥
श्रीशिव उवाच -
शृणु देवि प्रवक्ष्यामि तव स्नेहान्महेश्वरि ।
दुर्लभं त्रिषु लोकेषु सुन्दरीहृदयस्तवम् ॥ ३ ॥
ये नरा दुःखसन्तप्ता दारिद्रयहतमानसाः ।
अस्यैव पाठमात्रेण तेषां श्रेयो भविष्यति ॥ ४ ॥
विनियोगः ।
ॐ अस्य श्रीमहाषोडशीहृदयस्तोत्रमन्त्रस्य आनन्दभैरव ऋषिः
देवीगायत्रीछन्दः श्रीमहात्रिपुरसुन्दरी देवता
ऐं बीजम्सौः शक्तिः क्लीं कीलकम्
धर्मार्थकाममोक्षार्थे जपे (पाठे) विनियोगः ॥
ऋष्यादिन्यासः ।
ॐ आनन्दभैरवऋषये नमः शिरसि ।
देवी गायत्री छन्दसे नमः मुखे ।
श्रीमहात्रिपुरसुन्दरीदेवतायै नमः हृदये ।
ऐं बीजाय नमः नाभौ ।
सौः शक्तये नमः स्वाधिष्ठाने ।
क्लीं कीलकाय नमः मूलाधारे ।
विनियोगाय नमः पादयोः ॥
करन्यासः ।
ऐं ह्रीं क्लीं अङ्गुष्ठाभ्यां नमः ।
क्लीं श्रीं सौः ऐं तर्जनीभ्यां नमः ।
सौः ॐ ह्रीं श्रीं मध्यमाभ्यां नमः ।
ऐं कएलह्रीं हसकलह्रीं अनामिकाभ्यां नमः ।
क्लीं सकल कनिष्ठिकाभ्यां नमः ।
सौः सौः ऐं क्लीं ह्रीं श्रीं करतलकरपृष्ठाभ्यां नमः ॥
हृदयादिषडङ्गन्यासः ।
ऐं ह्रीं क्लीं हदयाय नमः ।
क्लीं श्रीं सौः ऐं शिरसे स्वाहा ।
सौः ॐ ह्रीं श्रीं शिखायै वषट् ।
ऐं कएलह्रीं हसकलह्रीं कवचाय हुम् ।
क्लीं सकल नेत्रत्रयाय वौषट् ।
सौः सौः ऐं क्लीं ह्रीं श्रीं अस्त्राय फट् ॥
ध्यानम् ।
बालव्यक्तविभाकरामितनिभां भव्यप्रदां भारती-
मीषत्फुल्लमुखाम्बुजस्मितकरैराशाभवान्धापहाम् ।
पाशं साभयमङ्कुशं च वरदं सम्बिभ्रतीं भूतिदां
भ्राजन्तीं चतुरम्बुजाकृतकरैर्भक्त्या भजे षोडशीम् ॥ ५ ॥
स्तोत्रम् ।
सुन्दरी सकलकल्मषापहा कोटिकञ्जकमनीयकान्तिभृत् ।
कोटिकल्पकृतपुण्यकर्मणा पूजनीयपदपुण्यपुष्करा ॥ ६ ॥
शर्वरीशसमसुन्दरानना श्रीशशक्तिसुकृताश्रयाश्रिता ।
सज्जनानुशरणीयसत्पदा सङ्कटे सुरगणैः सुवन्दिता ॥ ७ ॥
या सुरासुररणे जवान्विता आजघान जगदम्बिकाऽजिता ।
तां भजामि जननीं जगज्जनिं युद्धयुक्तदितिजान्सुदुर्जयान् ॥ ८ ॥
योगिनां हृदयसङ्गतां शिवां योगयुक्तमनसां यतात्मनाम् ।
जाग्रतीं जगति यत्नतो द्विजा यां जपन्ति हृदि तां भजाम्यहम् ॥ ९ ॥
कल्पकास्तु कलयन्ति कालिकां यत्कला कलिजनोपकारिका ।
कौलिकालिकलितान्घ्रिपङ्कजां तां भजामि कलिकल्मषापहाम् ॥ १० ॥
बालार्कानन्तशोचिर्न्निजतनुकिरणैर्द्दीपयन्तीं दिगन्तान्
दीप्तैर्द्देदीप्तमानां दनुजदलवनानल्पदावानलाभाम् ।
दान्तोदन्तोग्रचितां दलितदितिसुतां दर्शनीयां दुरन्तां
देवीं दीनार्द्रचित्तां हृदि मुदितमनाः षोडशीं संस्मरामि ॥ ११ ॥
धीरान्धन्यान्धरित्रीधवविधृतशिरो धूतधूल्यब्जपादां
घृष्टान्धाराधराधो विनिधृतचपलाचारुचन्दप्रभाभाम् ।
धर्म्यान्धूतोपहारान्धरणिसुरधवोद्धारिणीं ध्येयरूपां
धीमद्धन्यातिधन्यान्धनदधनवृतां सुन्दरीं चिन्तयामि ॥ १२ ॥
जयतु जयतु जल्पा योगिनी योगयुक्ता
जयतु जयतु सौम्या सुन्दरी सुन्दरास्या ।
जयतु जयतु पद्मा पद्मिनी केशवस्य
जयतु जयतु काली कालिनी कालकान्ता ॥ १३ ॥
जयतु जयतु खर्वा षोडशी वेदहस्ता
जयतु जयतु धात्री धर्मिणी धातृशान्तिः ।
जयतु जयतु वाणी ब्रह्मणो ब्रह्मवन्द्या
जयतु जयतु दुर्गा दारिणी देवशत्रोः ॥ १४ ॥
देवि त्वं सृष्टिकाले कमलभवभृता राजसी रक्तरूपा
रक्षाकाले त्वमम्बा हरिहृदयधृता सात्विकी श्वेतरूपा ।
भूरिक्रोधा भवान्ते भवभवनगता तामसी कृष्णरूपा
एताश्चान्यास्त्वमेव क्षितमनुजमला सुन्दरी केवलाद्या ॥ १५ ॥
सुमलशमनमेतद्देवि गोप्यं गुणज्ञे
ग्रहणमननयोग्यं षोडशीयं खलघ्नम् ।
सुरतरुसमशीलं सम्प्रदं पाठकानां
प्रभवति हृदयाख्यं स्तोत्रमत्यन्तमान्यम् ॥ १६ ॥
इदं त्रिपुरसुन्दर्याः षोडश्याः परमाद्भुतम् ।
यः शृणोति नरः स्तोत्रं स सदा सुखमश्नुते ॥ १७ ॥
न शूद्राय प्रदातव्यं शठाय मलिनात्मने ।
देयं दान्ताय भक्ताय ब्राह्मणाय विशेषतः ॥ १८ ॥
इति श्रीषोडशीहृदयस्तोत्रं अथवा
श्रीललितात्रिपुरसुन्दरीह्रिदयस्तोत्रम्समाप्तम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥