॥ श्री गणेशाय नमः ॥
श्रीसदाशिवकवचस्तोत्रम्
श्रीदेव्युवाच -
भगवन्देवदेवेश सर्वाम्नाय प्रपूजित ।
सर्वं मे कथितं देव कवचं न प्रकाशितम् ॥ १ ॥
प्रासादाख्यस्य मन्त्रस्य कवचं मे प्रकाशय ।
सर्वरक्षाकरं देव यदि स्नेहोऽस्ति मां प्रति ॥ २ ॥
श्रीभगवानुवाच -
ॐ अस्य प्रासादमन्त्र कवचस्य वामदेव ऋषिः
पन्क्तिश्छन्दः सदाशिवो देवता
सकला भीष्ट सिद्धये जपे विनियोगः ॥
शिरो मे सर्वदा पातु प्रासादाख्यः सदाशिवः ।
षडक्षरस्वरूपो मे वदनं तु महेश्वरः ॥ ३ ॥
पञ्चाक्षरात्मा भगवान्भुजौ मे परिरक्षतु ।
मृत्युञ्जयस्त्रिबीजात्मा आस्यं रक्षतु मे सदा ॥ ४ ॥
वटमूलं समासीनो दक्षिणामूर्तिरव्ययः ।
सदा मां सर्वदः पातु षट्त्रिंशार्णस्वरूपधृक् ॥ ५ ॥
द्वाविंशार्णात्मको रुद्रो दक्षिणः परिरक्षतु ।
त्रिवर्णात्मा नीलकण्ठः कण्ठं रक्षतु सर्वदा ॥ ६ ॥
चिन्तामणिर्बीजरूपो ह्यर्धनारीश्वरो हरः ।
सदा रक्षतु मे गुह्यं सर्वसम्पत्प्रदायकः ॥ ७ ॥
एकाक्षरस्वरूपात्मा कूटव्यापी महेश्वरः ।
मार्तण्डभैरवो नित्यं पादौ मे परिरक्षतु ॥ ८ ॥
तुम्बुराख्यो महाबीजस्वरूपः त्रिपुरान्तकः ।
सदा मां रणभूमौ च रक्षतु त्रिदशाधिपः ॥ ९ ॥
ऊर्ध्वमूर्द्धानमीशानो मम रक्षतु सर्वदा ।
दक्षिणास्यं तत्पुरुषः पायान्मे गिरिनायकः ॥ १० ॥
अघोराख्यो महादेवः पूर्वास्यं परिरक्षतु ।
वामदेवः पश्चिमास्यं सदा मे परिरक्षतु ॥ ११ ॥
उत्तरास्यं सदा पातु सद्योजातस्वरूपधृक् ।
इत्थं रक्षाकरं देवि कवचं देवदुर्लभम् ॥ १२ ॥
प्रातःकाले पठेद्यस्तु सोऽभीष्टं फलमाप्नुयात् ।
पूजाकाले पठेद्यस्तु कवचं साधकोत्तमः ॥ १३ ॥
कीर्तिश्रीकान्तिमेधायुः सहितो भवति ध्रुवम् ।
कण्ठे यो धारयेदेतत्कवचं मत्स्वरूपकम् ॥ १४ ॥
युद्धे च जयमाप्नोति द्यूते वादे स साधकः ।
कवचं धारयेद्यस्तु साधको दक्षिणे भुजे ॥ १५ ॥
देवा मनुष्या गन्धर्वा वश्यास्तस्य न संशयः ।
कवचं शिरसा यस्तु धारयेद्यतमानसः ॥ १६ ॥
करस्थास्तस्य देवेशि अणिमाद्यष्टसिद्धयः ।
भूर्जपत्रे त्विमां विद्यां शुक्लपक्षेण वेष्टिताम् ॥ १७ ॥
रजतोदरसंविष्टां कृत्वा वा धारयेत्सुधीः ।
संप्राप्य महतीं लक्ष्मीमन्ते मद्देहरूपभाक् ॥ १८ ॥
यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन ।
शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् ॥ १९ ॥
अन्यथा सिद्धिहानिः स्यात्सत्यमेतन्मनोरमे ।
तव स्नेहान्महादेवि कथितं कवचं शुभम् ॥ २० ॥
न देयं कस्यचिद्भद्रे यदीच्छेदात्मनो हितम् ।
यो अर्चयेद्गन्धपुष्पाद्यैः कवचं मन्मुखोदितं
तेनार्चिता महादेवि सर्वे देवा न संशयः ॥ २१ ॥
इति श्रीभैरवतन्त्रे श्रीसदाशिवकवचं सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥